मुख्यमंत्री प्रदेशस्य एवं देशस्य च वासिभ्यो बिहार दिवसस्य अददात् वर्धापनानि शुभकामनाश्च
पटना, 21 मार्चमासः (हि.स.)। मुख्यमंत्रिणा नीतीश कुमारेण बिहार-दिवसस्य उपलक्ष्ये प्रदेशवासिभ्यः तथा देशवासिभ्यः अभिनन्दनानि शुभाशंसाश्च प्रदत्ताः। मुख्यमन्त्रिणा स्वीयेषु शुभाशंसासु उक्तं यत् बिहारस्य इतिहासः अतीव गौरवशाली आसीत्, अद्य च स्वनिश्च
मुख्यमंत्री प्रदेशस्य एवं देशस्य च वासिभ्यो बिहार दिवसस्य अददात् वर्धापनानि शुभकामनाश्च


पटना, 21 मार्चमासः (हि.स.)।

मुख्यमंत्रिणा नीतीश कुमारेण बिहार-दिवसस्य उपलक्ष्ये प्रदेशवासिभ्यः तथा देशवासिभ्यः अभिनन्दनानि शुभाशंसाश्च प्रदत्ताः।

मुख्यमन्त्रिणा स्वीयेषु शुभाशंसासु उक्तं यत् बिहारस्य इतिहासः अतीव गौरवशाली आसीत्, अद्य च स्वनिश्चयेन बिहारस्य गौरवपूर्णं भविष्यं निर्मीयते। तेन उक्तं यत् बिहारवासी परस्परैक्यं, भ्रातृत्वं, सामाजिकसमरसतां सद्भावं च धारयन्तः बिहारस्य गौरवं नूतन-उन्नतिं नयिष्यन्ति।

मुख्यमन्त्रिणा समृद्ध-बिहारस्य संकल्पस्य सिद्ध्यर्थं सर्वेषां बिहारवासिनां आह्वानं कृतम्।

---------------

हिन्दुस्थान समाचार