Enter your Email Address to subscribe to our newsletters

जयपुरम्, 21 मार्चमासः (हि.स.)।
चैत्र-शुक्ल-तृतीया-शनिवासरे विविधेषु शुभ-योगेषु सुहाग-पर्व गणगौरः महता उत्साहेन आचर्यिष्यते। सायंकाले सिटी-पैलेसस्य जनानी-ड्योढी-स्थानात् गणगौर-देव्याः राजकीय-शोभायात्रा निष्क्रमिष्यति। राजकीय-वैभवेन सह निष्क्रममाणायां गणगौर-देव्याः यात्रायां लोक-रङ्गाः अपि प्रस्फुरिष्यन्ति।
चौगान-मार्गेण गच्छन्ती गणगौर-देव्याः शोभायात्रा ताल-कटोरा-स्थलस्य समीपे पौण्ड्रिक-उद्यानस्य छत्र्यां प्राप्स्यति, तत्र मेला आयोजितः भविष्यति। तत्र देव्यै घेवर-नामकं नैवेद्यं समर्पयिष्यते। ततः अनन्तरं प्रायः त्रिंशत्-मिनिट-पर्यन्तं विश्रामं कृत्वा पुनः सा शोभायात्रा सिटी-पैलेस प्रति प्रस्थिताऽ भविष्यति।
देव्याः दर्शनार्थं नगरस्य सर्वे जनाः अत्र समागमिष्यन्ति तथा दर्शनं कृत्वा सुख-समृद्ध्योः कामनां करिष्यन्ति। तत्र ईसर-गणगौर-रूपेण पार्वती-शिवयोः पूजनं क्रियते। कुमारिकाः कन्याः सुयोग्य-वर-प्राप्तये पूजनं करिष्यन्ति, विवाहिताः स्त्रियः पतिव्रत-रूपेण पत्या दीर्घायुषः तथा अखण्ड-सौभाग्यस्य कामनया व्रतं कृत्वा गणगौर-पूजनं करिष्यन्ति।
पूजनानन्तरं गणगौर-देव्यै भोगरूपेण गुणा-सकरपारा इति खाद्यं समर्प्यते। याः स्त्रियः गणगौर-व्रतस्य उद्यापनं कुर्वन्ति, ताः षोडश-सुहागिन्यः भोजयित्वा उपहाररूपेण वस्तूनि दास्यन्ति। अन्याः स्त्रियः, याः उद्यापनं न कुर्वन्ति, ताः स्वसास्वे बयाना दत्त्वा आशीर्वादं प्राप्स्यन्ति।
---------------
हिन्दुस्थान समाचार