केशव-नमन-कार्यक्रमः: शत-कण्ठ-गायने राष्ट्रभक्तेः स्वरः गुंजितः
हुब्बलीनगरम्, २१ मार्चमास: (हि.स.)। लोकहित-न्यास: तथा सहयोग-संस्कार-भारती-इत्यनयोः तत्वावधाने कर्नाटक-राज्यस्य हुब्बली-नगरे “केशव-नमन” कार्यक्रमः सफलतया आयोजितः। नगरस्य सवाई-गंधर्व-सभागृहे आयोजिते अस्मिन् कार्यक्रमे “शत-कण्ठ-गायनम्” मुख्याकर्षणम्
ನರೇಂದ್ರ


हुब्बलीनगरम्, २१ मार्चमास: (हि.स.)। लोकहित-न्यास: तथा सहयोग-संस्कार-भारती-इत्यनयोः तत्वावधाने कर्नाटक-राज्यस्य हुब्बली-नगरे “केशव-नमन” कार्यक्रमः सफलतया आयोजितः।

नगरस्य सवाई-गंधर्व-सभागृहे आयोजिते अस्मिन् कार्यक्रमे “शत-कण्ठ-गायनम्” मुख्याकर्षणम् आसीत्, यस्मिन् शताधिकाः गायकाः राष्ट्रभक्ति-गीतानि प्रस्तुतवन्तः। देशभक्ति-भावनया ओतप्रोतं तत् सामूहिक-गायनम् उपस्थितेषु श्रोतृषु उत्साहं संजनयत्।

कार्यक्रमे मुख्य-वक्तारूपेण राष्ट्रीय-स्वयंसेवक-संघस्य उत्तर-प्रान्त-प्रचारकः नरेन्द्रः सम्बोधयन् डॉ.केशव-बलिराम-हेडगेवारस्य जीवनं तस्य योगदानं च स्मारितवान्।

तेन उक्तं यत् केवलं एकादश-वर्षीयायां वयसि मातापित्रोः निधनं जातम् अपि डॉ.हेडगेवारः देशभक्ति-मार्गात् न विचलितः। छात्र-जीवने एव सः स्वतन्त्रता-आन्दोलने भागं गृहीत्वा अनन्तरं क्रान्तिकारी-क्रियासु सक्रियः अभवत्। कांग्रेस-दले अपि सः अनेकानि उत्तरदायित्वानि वहन् देशस्य दासत्वस्य कारणेषु गम्भीरं चिन्तनं कृतवान्।

तेन उक्तं— “देशभक्तिः केवलं भावना न, अपितु आचरणम् अपि भवेत्। प्रत्येकं व्यक्तेः अन्तः दृढा देशभक्तिः भवितव्या।”

तेन अपि उक्तं यत् हिन्दू-संगठनस्य कार्यारम्भे प्रारम्भे उपहासस्य सम्मुखिन: अभवत्, किन्तु दृढ-संकल्पेन परिश्रमेण च राष्ट्रीय-स्वयंसेवक-संघः अद्य विश्वस्य महत्त्वपूर्णेषु बृहत्तमेषु संगठनेषु एकः अभवत्।

वर्तमानकाले संघः समाजस्य विविधेषु क्षेत्रेषु कार्यं करोति, सज्जनान् संगठयित्वा राष्ट्र-निर्माणमेव तस्य मुख्य-उद्देश्यं अस्ति। तेन जनान् प्रति आह्वानं कृतं यत् ते देशाय अधिकं समयं दत्त्वा सेवा-कार्येषु भागं गृह्णन्तु।

हिन्दुस्थान समाचार / अंशु गुप्ता