Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 21 मार्चमासः (हि.स.)।
असम-राज्यस्य लखीमपुर-जिलायाः बिहपुरिया-क्षेत्रे कांग्रेस-पक्षाय महान् आघातः जातः। भारतीयजनतापक्षस्य प्रत्याशी तथा असम-प्रदेश-कांग्रेस-समितेः पूर्वाध्यक्षस्य भूपेन बोरा इत्यस्य उपस्थितौ कांग्रेस-पक्षस्य सप्तदश नेतारः भारतीयजनतापक्षस्य सदस्यतां स्वीकृतवन्तः।
एतेषां अतिरिक्तं दलपरिवर्तनकर्तृषु तिनसुकिया-जिलायाः दुमदुमा-क्षेत्रस्य पूर्व-विधायकः तथा एपीसीसी-उपाध्यक्षः दिलीप मोरान अपि सम्मिलितः। तस्य कांग्रेस-पक्षत्यागः दलस्य कृते महत्त्वपूर्णं राजनैतिक-हानिः इति मन्यते।
उच्यते यत् दिलीप मोरान नवगठितात् माकूम-विधानसभाक्षेत्रात् प्रत्याशित्वस्य अभिलाषी आसीत्। अतः तस्य अस्य निर्णयस्य आगामि-विधानसभानिर्वाचनेषु प्रभावः सम्भाव्यते इति अभिप्रायः व्यक्तः।
हिन्दुस्थान समाचार