ईद-उल-फितरपर्वणि राष्ट्रपतिः, उपराष्ट्रपतिःप्रधानमंत्री च अयच्छन् शुभकामनाः, भ्रातृत्वस्य हर्षस्य च कामना
नवदिल्ली, 21 मार्चमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सी.पी. राधाकृष्णनः तथा प्रधानमन्त्री नरेन्द्र मोदीः शनिवासरे ईद-उल-फितर-पर्वणः अवसरस्य निमित्तं देशवासिभ्यः हार्दिकाः शुभाशयाः प्रेषितवन्तः, समाजे भ्रातृत्वं सौहार्दं समृद
ईद-उल-फितरपर्वणि राष्ट्रपतिः, उपराष्ट्रपतिःप्रधानमंत्री च अयच्छन् शुभकामनाः, भ्रातृत्वस्य हर्षस्य च कामना


नवदिल्ली, 21 मार्चमासः (हि.स.)।

राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सी.पी. राधाकृष्णनः तथा प्रधानमन्त्री नरेन्द्र मोदीः शनिवासरे ईद-उल-फितर-पर्वणः अवसरस्य निमित्तं देशवासिभ्यः हार्दिकाः शुभाशयाः प्रेषितवन्तः, समाजे भ्रातृत्वं सौहार्दं समृद्धिं च कामितवन्तः।

राष्ट्रपतिः द्रौपदी मुर्मुः सामाजिकमाध्यमे ‘एक्स’ इति मंचे स्वसन्देशे उक्तवती यत् ईद-उल-फितर-पवित्रावसरे सर्वेभ्यः देशवासिभ्यः विशेषतः मुस्लिमसमुदायस्य जनानां प्रति हार्दिका अभिनन्दनानि। एषः पर्व आत्मसंयमस्य सेवायाः परोपकारस्य च तथा वञ्चितवर्गेषु करुणाभावस्य प्रेरणां ददाति। राष्ट्रपतिः जनान् आह्वयत् यत् अस्मिन् अवसरे समाजस्य राष्ट्रस्य च सशक्तीकरणाय संकल्पं कुर्वन्तु।

उपराष्ट्रपतिः सी.पी. राधाकृष्णनः स्वसन्देशे उक्तवान् “ईद मुबारक! अयं पवित्रः पर्व आशां सौहार्दं करुणां च प्रोत्साहयतु तथा सर्वेषां जीवनेषु सुखानि सफलतां च आनयतु।”

प्रधानमन्त्री नरेन्द्र मोदीः ‘एक्स’ इति माध्यमेन देशवासिभ्यः ईद-उल-फितर-अभिनन्दनं दत्त्वा उक्तवान् यत् अयं दिवसः समाजे भ्रातृत्वस्य करुणायाः च भावनां अधिकं दृढीकुर्यात्। तेन सर्वेषां सुखं शान्तिं उत्तमं स्वास्थ्यं च कामितम्।

उल्लेखनीयम् अस्ति यत् देशव्यापी ईद-उल-फितर-पर्व हर्षोल्लासेन आचर्यते। मस्जिदेषु विशेष-नमाजाः क्रियन्ते तथा जनाः परस्परं आलिङ्ग्य अभिनन्दनानि विनिमयन्ति।

------

हिन्दुस्थान समाचार