रक्षा मंत्री राजनाथ सिंहः प्राप्नोत् उत्तराखंडं, मुख्यमंत्री धामी अकरोत् स्वागतम्
पंतनगरम्, 21 मार्चमासः (हि.स.)। केन्द्रीय-रक्षामन्त्री राजनाथ-सिंहः शनिवासरे एकदिवसीय-भ्रमणार्थं उत्तराखण्डं प्राप्तवान्। पंतनगर-विमानस्थानके मुख्यमन्त्री पुष्कर-सिंह-धामी तस्य स्वागतं कृतवान्। तत्र प्रशासनिक-अधिकारीणः जनप्रतिनिधयश्च उपस्थिताः आसन्
रक्षा मंत्री राजनाथ सिंह का मुख्यमंत्री धामी पंतनगर एयरपोर्ट पर स्वागत करते हुए।


सभा स्थल पर एकत्रित लोग।


पंतनगरम्, 21 मार्चमासः (हि.स.)। केन्द्रीय-रक्षामन्त्री राजनाथ-सिंहः शनिवासरे एकदिवसीय-भ्रमणार्थं उत्तराखण्डं प्राप्तवान्। पंतनगर-विमानस्थानके मुख्यमन्त्री पुष्कर-सिंह-धामी तस्य स्वागतं कृतवान्। तत्र प्रशासनिक-अधिकारीणः जनप्रतिनिधयश्च उपस्थिताः आसन्।

प्रदेशस्य धामी-सरकारस्य चत्वारि वर्षाणि पूर्णानि अभवन् इति निमित्तेन हल्द्वानी-नगरे विशेषः कार्यक्रमः आयोजितः अस्ति। अस्मिन् कार्यक्रमे केन्द्रीय-रक्षामन्त्री राजनाथ-सिंहः अपि सहभागिताṃ करोति। कार्यक्रमे प्रदेश-सरकारस्य उपलब्धीनां विकास-कार्याणां च प्रस्तुतीकरणं क्रियते।

कार्यक्रम-स्थले प्रातःकालात् एव जनाः आगन्तुं आरब्धवन्तः, क्रमशः जनसमूहः अपि वर्धितः। दूरस्थ-प्रदेशेभ्यः अपि बहुसंख्यकाः जनाः कार्यक्रमे सहभागितां कर्तुं आगतवन्तः। प्रशासन-पक्षेण कार्यक्रम-स्थले आवश्यक-व्यवस्थाः सुनिश्चिताः कृताः।

मुख्यमन्त्री धामी केन्द्रीय-मन्त्रिणं उत्तराखण्डे स्वागतं कृत्वा एक्स् इति सामाजिक-माध्यमे लिखितवान्— “आध्यात्मिक-चेतनया ओतप्रोतानां बहूनां ऋषि-मुनिनां तपोभूमिः देवभूमिः उत्तराखण्डे आगतं भारतीय-सशस्त्र-सेनानां आधुनिकीकरणं सुदृढीकरणं च कर्तारं, मातृभूमेः उपासकं अस्माकं प्रेरणास्रोतं च केन्द्रीय-रक्षामन्त्री राजनाथ-सिंहं पंतनगर-विमानस्थानके हार्दिकं स्वागतं अभिनन्दनं च करोमि।

-------------

हिन्दुस्थान समाचार