अग्निवीरैः सह समागत्य रक्षामन्त्री राजनाथसिंहः अवदत् — “भारतीय-सेनायां भवतां स्वागतम्”
देहरादूननगरम्, २१ मार्चमासः (हि.स.) — रक्षामन्त्री-श्री-राजनाथसिंहस्य हल्द्वानी-आगमने देवभूमेः उत्तराखण्डात् चयनिताः ११२ अधिकाः अग्निवीराः “भारत माता की जय” इति घोषैः तस्य स्वागतम् अकुर्वन्।रक्षामन्त्री उपस्थितान् सर्वान् अग्निवीरान् सम्बोध्य अवदत्
रक्षा मंत्री राजनाथ सिंह कार्यक्रम को संबोधित करते हुए।


देहरादूननगरम्, २१ मार्चमासः (हि.स.) — रक्षामन्त्री-श्री-राजनाथसिंहस्य हल्द्वानी-आगमने देवभूमेः उत्तराखण्डात् चयनिताः ११२ अधिकाः अग्निवीराः “भारत माता की जय” इति घोषैः तस्य स्वागतम् अकुर्वन्।रक्षामन्त्री उपस्थितान् सर्वान् अग्निवीरान् सम्बोध्य अवदत् — “भारत-जनन्याः रक्षणार्थम् आगच्छतां सर्वेषां भारतीय-सेनायां हार्दिकं स्वागतम्।”

अस्मिन् अवसरे आगतः मुख्यमन्त्री पुष्कर-सिंह-धामी प्रतीकरूपेण चयनितान् अग्निवीरान् तिलकं कृत्वा मातृभूमेः रक्षणाय शुभकामनाः अददात्। एते अग्निवीराः यूथ-फाउण्डेशन-इत्यत्र प्रशिक्षणं कृत्वा सेनायां प्रविशन्ति।

अस्मिन् अवसरे यूथ-फाउण्डेशन-अध्यक्षः कर्नल अजय-कोठियालः उक्तवान् यत् अस्मिन् पर्याये तेषां ७५२ अभ्यर्थिषु ७१० जनाः अग्निवीर-नियुक्तौ चयनिताः। तेन उक्तम् यत् मुख्यमन्त्री-धामिनः प्रेरणया यूथ-फाउण्डेशन उत्तराखण्डस्य युवभ्य: निःशुल्क-प्रशिक्षणं ददाति, लिखित-परीक्षा-शारीरिक-परीक्षयोः अभ्यासं च कारयति, तथा अद्यपर्यन्तं १५,००० अधिकान् यून: सेना, अर्धसैनिक-दलेषु, आरक्षकादिषु च राष्ट्रसेवायै प्रेषितवान्।

रक्षामन्त्री राजनाथसिंहः कर्नल-कोठियालस्य राष्ट्रसेवायाः कार्यस्य प्रशंसां कृतवान् तथा चयनित-अग्निवीरैः सह समूह-छायाचित्रं अपि ग्राहयामास।

उल्लेखनीयम् — कर्नल-अजय-कोठियालः एवरेस्ट-शिखर-विजेता अस्ति तथा सेना-विशिष्ट-पदकैः सम्मानितः। केदारनाथ-आपदायाः अनन्तरं केदार-नगरस्य पुनर्निर्माणे अपि तस्य सेवाः विशेषतया प्रशंसिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता