Enter your Email Address to subscribe to our newsletters

मुम्बईनगरम्, २१ मार्चमास: (हि.स.)। शिवसेना (यूबीटी) पक्षप्रमुखः उद्धव-ठाकरे राज्यस्य युवभ्य: रोजगार-अवसरान् प्रदातुं शिवसेना-भवनात् कौशल-प्रशिक्षणस्य प्रयत्नम् आरब्धवान् इति सूचितवान्। अस्य प्रयत्नस्य अन्तर्गतं यूनां विशेषज्ञाणां मार्गदर्शनेन विविधेषु क्षेत्रेषु प्रशिक्षणं दास्यते।
मुम्बई-नगरे शनिवासरे आयोजितायां पत्रकार-वार्तायां सम्बोधयन् उद्धव-ठाकरे अवदत् यत् मया सह ये विशेषज्ञाः सन्ति, ते रोजगार-अवसरान् प्रदास्यन्ति। याचनानुसारं आवश्यकं मानवबलं प्रदीयते। अस्य कृते उत्तम-गुणवत्तायुक्तानां कुशलानां बालकानां बालिकानां च आवश्यकता अस्ति। अस्य प्रयत्नस्य अन्तर्गतं प्रारम्भे ३० यूनां समूहः स्वीक्रियते, तेभ्य: च विमानतल-नौकास्थल-क्षेत्रयोः नेतुं प्रायोगिक-प्रशिक्षणं दास्यते।
उद्धवेन उक्तं यत् प्रशिक्षणस्य समाप्तेः अनन्तरं छात्रेभ्यः प्रमाणपत्राणि प्रदास्यन्ते तथा च तेषां रोजगारस्य सुनिश्चित्यर्थं प्रयासः क्रियते। अत्र अध्ययनं कुर्वतां सर्वेषां छात्राणां प्रमाणपत्र-प्राप्तेः अनन्तरं रोजगारः प्राप्तव्यः इति अस्माकं प्रयासः भविष्यति; वयं तादृशान् सक्षम-यूनः निर्मास्यामः।
हिन्दुस्थान समाचार / अंशु गुप्ता