दांतने तृणमूलस्य वारः, कर्माध्यक्षो भाजपादले सम्मिलितः
मेदिनीपुरम्, 21 मार्चमासः (हि.स.)।आगामिनः विधानसभानिर्वाचनात् पूर्वं दान्तनक्षेत्रे महत्त्वपूर्णः राजनैतिकः घटनाक्रमः समुपस्थितः। शुक्रवासरे रात्रौ एकस्मिन् सार्वजनिकमञ्चे शिक्षकः तथा मोहनपुर-पञ्चायतसमितेः द्विवारं तृणमूल-कर्माध्यक्षः राजीव नायकः औ
भाजपा से जुड़ते तृणमूल कार्यकर्ता


मेदिनीपुरम्, 21 मार्चमासः (हि.स.)।आगामिनः विधानसभानिर्वाचनात् पूर्वं दान्तनक्षेत्रे महत्त्वपूर्णः राजनैतिकः घटनाक्रमः समुपस्थितः। शुक्रवासरे रात्रौ एकस्मिन् सार्वजनिकमञ्चे शिक्षकः तथा मोहनपुर-पञ्चायतसमितेः द्विवारं तृणमूल-कर्माध्यक्षः राजीव नायकः औपचारिकरूपेण भारतीयजनतापक्षे सम्मिलितवान्।

दान्तन २१९ सङ्ख्यक विधानसभास्थानात् भाजपा-प्रत्याशी अजीतकुमार जाना इत्यस्य हस्तेन सः भाजपा-पक्षे प्रवेशं कृत्वा स्वस्य नूतनां राजनैतिकयात्रां प्रारब्धवान्। अस्य अनुभवी-नेतुः दलपरिवर्तनेन स्थानीय-राजनैतिकवातावरणे पर्याप्ता चलनशीलता दृष्टा।

भाजपा-मञ्चात् सः उक्तवान्— “जनहितस्य विकासस्य च दृष्ट्या मया भाजपा-पक्षे सम्मिलितुं निर्णयः कृतः।”

राजनीतिविश्लेषकानां मतानुसारं राजीव नायक इव प्रभावशालिनः नेतुः अस्य निर्णयेन दान्तन-विधानसभाक्षेत्रस्य निर्वाचन-समীকरे महत्त्वपूर्णः प्रभावः सम्भाव्यते। विशेषतः मोहनपुरक्षेत्रे तृणमूल-सङ्गठनस्य दृढता बाधिता भवितुमर्हति, यस्य फलस्वरूपं भाजपा-पक्षस्य लाभस्य सम्भावना वर्धते इति अभिप्रायः व्यक्तः।

भाजपा-प्रत्याशी अजीतकुमार जाना उक्तवान्— “राजीव नायक इव अनुभवी जनाधारयुक्तः नेता भाजपा-पक्षे आगतेन सङ्गठनं अधिकं सुदृढं भविष्यति तथा दान्तनक्षेत्रे परिवर्तनस्य मार्गः अधिकं सुकरः भविष्यति।”

निर्वाचनात् पूर्वमेव जातः अयं घटनाक्रमः क्षेत्रे राजनैतिकचर्चां तीव्रतया वर्धितवान्।

---------------

हिन्दुस्थान समाचार