Enter your Email Address to subscribe to our newsletters



देहरादूननगरम्, २१ मार्चमासः (हि.स.) — केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्री भूपेन्द्र-यादवः शनिवासरे अवदत् यत् वनसंरक्षणस्य अर्थः केवलं वृक्षारोपणं न, अपितु समग्रस्य पारिस्थितिकी-तन्त्रस्य संरक्षणमपि तावत् एव आवश्यकम् अस्ति।
अन्ताराष्ट्रिय-वन-दिवसस्य अवसरे देहरादून-नगरे स्थिते वन-अनुसन्धान-संस्थाने आयोजिताया: द्विदिवसीय-राष्ट्रीय-कार्यशालायाः उद्घाटनसमये सः एतत् अवदत्। “वन-आधारित-सतत-जैव-अर्थव्यवस्थायाः संवर्धनम्: विषयाः तथा समस्या:” इति विषये एषा कार्यशाला २१–२२ मार्चमासयोः भारतीय-वानिकी-अनुसन्धान-शिक्षा-परिषदा (आईसीएफआरई) पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्रालयस्य सहयोगेन आयोज्यते।
केन्द्रीय-मन्त्री अवदत् यत् प्रकृतिः सर्वोपरि अस्ति तथा मानवस्य अस्तित्वाय तया सह सह-अस्तित्वम् अनिवार्यम्। सः वानिकी-क्षेत्रे समग्र-दृष्टिकोणस्य अवलम्बनम्, विभागानां मध्ये समन्वयस्य वर्धनम्, “ग्रीन-क्रेडिट-कार्यक्रमः” तथा “कार्बन-क्रेडिट्” इत्यादीनां तन्त्राणां महत्त्वं च प्रतिपादितवान्। तेन उक्तम् यत् वनानि केवलं अर्थव्यवस्थायै न, अपितु शान्तये पर्यावरणीय-सन्तुलनाय च अत्यावश्यकानि सन्ति।
अस्यां कार्यशालायां वन-आधारित-जैव-उत्पादानां व्यावसायिकीकरणम्, सतत-वन-प्रबन्धनम्, नीतिगत-रूपरेखा, उद्यमिता, जैव-अर्थव्यवस्थायाः संवर्धने नवाचारस्य भूमिका इत्यादिषु विषयेषु विचार-विमर्शः क्रियते। तेन सह कृषि-वानिकी, अकाष्ठ-वन-उत्पादाः, कार्बन-विपणं, वन्यजीव-संरक्षणम्, इको-पर्यटनम्, डिजिटल-निरीक्षणम् इत्यादिषु विषयेषु तकनीकी-सत्राणि अपि आयोज्यन्ते।
कार्यक्रमस्यावसरे आईसीएफआरई-महानिदेशिका कञ्चन-देवी केन्द्रीय-मन्त्रिणे भूपेन्द्र-यादवाय मुनस्यारी-प्रदेशस्य पारम्परिक-पायरोग्राफी-कला-निर्मितं उत्तराखण्डस्य राजकीय-पक्षिणः “मोनाल” इत्यस्य चित्रं समर्पितवती।
अस्यां कार्यशालायां देशस्य विविध-भागेभ्यः वैज्ञानिकाः, नीति-निर्मातारः, उद्योग-प्रतिनिधयः तथा वन-प्रबन्धकाः सहभागिनः सन्ति। अस्य मुख्य-उद्देश्यं वन-आधारित-जैव-अर्थव्यवस्थायाः सुदृढीकरणाय अवसर-समस्यानां विषये व्यापक-चर्चां कर्तुम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता