पश्चिम-एशिया-संकटं केवलं भारतस्य न, अपितु समग्र-विश्वस्यापि चिन्ताया: विषयः — राजनाथसिंहः
हल्द्वानी-नगरम्, २१ मार्चमासः (हि.स.) — केन्द्रीय-रक्षामन्त्री राजनाथसिंहः पश्चिम-एशिया-प्रदेशे वर्तमान-संघर्षस्य विषये चिन्तां व्यक्तवान्। सः अवदत् यत् अद्य सम्पूर्णं विश्वं संकट-कालं अनुभवति। पश्चिम-एशियायां निरन्तरं आक्रमणानि भवन्ति, एतत् केवलं
रक्षा मंत्री राजनाथ सिंह कार्यक्रम को संबोधित करते हुए।


हल्द्वानी में मंचासीन रक्षा मंत्री राजनाथ सिंह, मुख्यमंत्री धामी व अन्य।


हल्द्वानी-नगरम्, २१ मार्चमासः (हि.स.) — केन्द्रीय-रक्षामन्त्री राजनाथसिंहः पश्चिम-एशिया-प्रदेशे वर्तमान-संघर्षस्य विषये चिन्तां व्यक्तवान्। सः अवदत् यत् अद्य सम्पूर्णं विश्वं संकट-कालं अनुभवति। पश्चिम-एशियायां निरन्तरं आक्रमणानि भवन्ति, एतत् केवलं भारतस्य न, अपितु समग्र-विश्वस्यापि चिन्ताया: विषयः अस्ति। अस्मिन् विषये भारतस्य मतं स्पष्टम् अस्ति यत् समस्या संवादेन कूटनीत्या च समाधानं प्राप्नुयात्।

रक्षामन्त्री शनिवासरे उत्तराखण्ड-राज्यस्य पुष्करसिंह-सर्वकारस्य चतुर्वर्षपूर्त्यवसरे हल्द्वानी-स्थिते एमबी-इण्टर-महाविद्यालये आयोजितं कार्यक्रमं सम्बोधयन् आसीत्। तेन सम्भावित-ऊर्जा-अभावस्य खाद्य-संकटस्य च समाधानाय प्रधानमन्त्रिणः नरेन्द्रमोदिन: प्रयत्नाः प्रशंसिताः। सः अवदत् यत् अद्यपर्यन्तं प्रधानमन्त्रिणः विचारै: भारतदेश: वैश्विक-संकटात् सुरक्षित:, किन्तु भविष्ये क: प्रभावः भविष्यति इति वक्तुं न शक्यते। सः अपि अवदत् यत् वैश्विक-संकट-निवारणाय ये प्रयासाः क्रियन्ते, तेषां उत्तराखण्ड-वासिभिः अपि समर्थनं कर्तव्यम्।

रक्षामन्त्री राजनाथसिंहः कांग्रेस-पक्षं प्रति आलोचनां कृतवान्। सः अवदत् यत् कांग्रेस-पक्षः प्रत्येक-निर्वाचने पराजयानन्तरं ईवीएम्-यन्त्रेषु दोषं आरोपयति तथा संवैधानिक-व्यवस्थासु अपि प्रश्नान् उपस्थितान् करोति। सः उक्तवान् यत् यदा यदा कांग्रेस-पक्षः पराजयं प्राप्नोति, तदा तदा एते ईवीएम्-दोषं ददति, निर्वाचन-आयोगं दोषयन्ति, तथा ईसी-ईडी-पर्यन्तं संस्थाः अपि संशये स्थापयन्ति।

अस्मिन् कार्यक्रमे रक्षामन्त्री राजनाथसिंह: प्रदेशस्य मुख्यमन्त्रिणः धामीन: कार्यस्य प्रशंसां कृतवान्। सः अवदत् यत् उत्तराखण्डे धामी-सर्वकारेण विकासः उच्चतम-शिखरं नीतः, द्रुतगत्या विकास-कार्याणि अपि कृतानि। सः उक्तवान् यत् धामीं “धाकड-धामी” इति न, अपितु “धुरन्धर-धामी” इति वक्तुं युक्तम्। एतानि विकास-कार्याणि उत्तराखण्डस्य राजनैतिक-इतिहासस्य महत्त्वपूर्ण-अध्यायः इति सः अभिप्रेतवान्।सः अवदत् यत् उत्तराखण्डस्य सुरक्षा तथा पवित्रता अपि अत्यन्तं महत्त्वपूर्णे स्तः, तथा धामी-सर्वकारः अस्मिन् दिशि शीघ्रं कार्यं करोति। अवैध-प्रवेशस्य अतिक्रमणस्य च विरुद्धं कृतानि कार्याणि प्रशंसनीयानि सन्ति।

रक्षामन्त्री अवदत् यत् उत्तराखण्डः “देवभूमिः” इति ख्यातः अस्ति, तथा “वीरभूमिः” इति अपि प्रसिद्धः। नारी-सशक्तिकरण-क्षेत्रे अपि उत्तराखण्डस्य महिलाः आदर्शाः सन्ति। राज्ञी कर्णावती, गौरा-देवी, बछेन्द्री-पाल, बसन्ती-देवी, वन्दना-कटारिया इत्यादयः राष्ट्रे प्रसिद्धाः सन्ति।

सः चारधाम-ऑल-वेदर-रोड्, ऋषिकेश-कर्णप्रयाग-रेल-मार्गः, गोविन्द-घाट-हेमकुण्ड-साहिब-रोपवे, यमुनोत्री-रोपवे, जमरानी-बन्ध-परियोजना इत्यादीनां योजनानां प्रशंसां कृत्वा एतत्सर्वं उत्तराखण्डस्य कृते वरदानम् इति उक्तवान्।अस्मिन् अवसरे मुख्यमन्त्री धामी अवदत् यत् उत्तराखण्डः निरन्तरं विकसित-राज्यत्वं प्रति अग्रे सरति, शीघ्रमेव च देशस्य विकसित-राज्यानां मध्ये स्थानं प्राप्स्यति।पूर्वं मुख्यमन्त्री धामी, सांसदः अजय-भट्टः तथा भाजपा-प्रदेशाध्यक्षः महेन्द्र-भट्टः रक्षामन्त्री राजनाथसिंहस्य स्वागतं कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता