Enter your Email Address to subscribe to our newsletters

औरैया, 21 मार्चमासः (हि.स.)।
रमजान-मासस्य समापने चन्द्रदर्शनानन्तरं ईद्-पर्व आचर्यते। उत्तरप्रदेशस्य औरैयाजनपदे ईद्-अवसरे शनिवासरे प्रातःकालात् एव मस्जिदेषु ईदगाहेषु च मुस्लिम-समुदायस्य जनानां महती भीड् समागता। जनाः नूतन-वस्त्राणि धारयित्वा सुगन्धद्रव्यं (इत्र) उपयुज्य परस्पर-भ्रातृत्व-भावनया सह नमाजं कर्तुं गृहात् निर्गताः।
नगर-काजिना निर्धारित-काले ईद्-नमाजः अदा कारितः, यस्मिन् बहुसंख्यकाः जनाः सहभागी अभवन्। नमाज-समये देशे शान्तये सौहार्दाय समृद्धये च विशेष-प्रार्थनाः कृताः। नमाज-समाप्तेः अनन्तरं जनाः परस्परं आलिङ्ग्य ईद्-शुभाशंसाः अददुः। अस्मिन् अवसरे सम्पूर्णे वातावरणे प्रेम-सौहार्द-एकताया भावः स्पष्टतया दृष्टः।
नमाजानन्तरं नगरस्य जमालशाह-तिराह-प्रदेशस्थितायां बिलाल-मस्जिदस्य समीपे जनप्रतिनिधीनां विभिन्न-राजनीतिक-दल-नेतॄणां च उपस्थितिः अपि दृष्टा। समाजवादी-पक्षस्य जिलाध्यक्षः सर्वेश-बाबू-गौतमः, लालजी-शुक्लः गणेश-सिंहः च अन्ये पदाधिकारीणः मुस्लिम-समुदायस्य जनान् मिलित्वा तेषां प्रति ईद्-शुभाशंसाः प्रकटितवन्तः।
नगर-पालिका-अध्यक्षः अनुप-गुप्तः अपि स्व-सहयोगिभिः सह आगत्य जनान् आलिङ्ग्य उत्सवस्य अभिनन्दनं कृतवान्।
ईद्-अवसरे सुरक्षा-व्यवस्था अपि सुदृढा आसीत्। नगरस्य प्रमुख-स्थलेषु पुलिस्-बलं नियुक्तम् आसीत्। प्रशासनस्य सतर्कतया कुत्रापि अप्रिय-घटनायाः सूचना न प्राप्ता।
जिलाधिकारी डॉ. इन्द्रमणि-त्रिपाठी, पुलिस्-अधीक्षकः अभिषेक-भारती, अपर-पुलिस्-अधीक्षकः आलोक-मिश्रः, सीओ-सिटी अशोक-कुमारः अन्ये अधिकारीणः च जनान् प्रति ईद्-शुभाशंसाः प्रकटितवन्तः।
समग्रतया औरैयानगरे ईद्-पर्वः परस्पर-प्रेम-शान्ति-भ्रातृत्व-भावेन सह हर्षोल्लासेन आचरितः।
---------------
हिन्दुस्थान समाचार