Enter your Email Address to subscribe to our newsletters


वाराणसी,21 मार्चमासः (हि.स.)।चैत्र-नवरात्रस्य तृतीय-दिने काशीपुराधिपतेः बाबा-विश्वनाथस्य नगरे सौभाग्य-गौरी तथा देवी-चित्रघंटा इत्येतेभ्यः समर्पितः अस्ति। शनिवासरे श्रद्धालवः परम्परानुसारं नवदुर्गा-स्वरूपां देवी-चन्द्रघण्टां तथा सौभाग्य-गौरी-दरबारे पूर्णया श्रद्धया मस्तकं नतवन्तः।
जीवने सौभाग्यस्य आगमनार्थं श्रद्धालवः मातुः दरबारे निवेदनं (अर्जी) अपि कृतवन्तः। अस्मिन् काले उभयोः देवालययोः जयघोषैः वातावरणं निनादितम्।
उभयोः देवालययोः दर्शन-पूजनार्थं श्रद्धालवः नर-नार्यः प्रातः त्रिवादनात् आरभ्य एव आगन्तुं आरब्धवन्तः। देवालय-द्वारात् आरभ्य गलिपर्यन्तं यावत् श्रद्धालवः क्रमशः पङ्क्तिबद्धाः सन्तः स्वस्व-क्रमेण दर्शन-पूजनं कुर्वन्तः आसन्।
माता चन्द्रघण्टायाः चौक-चित्रघंटा-गल्यां स्थिते मन्दिरे पूर्वाह्णपर्यन्तं दीर्घाः पङ्क्तयः दृश्यन्ते स्म। भक्तजनाः स्वस्य क्रमस्य प्रतीक्षां कुर्वन्तः मातुः समक्षं नारिकेलं चुनरीं च अर्पयित्वा श्रद्धया प्रणम्य स्वपरिवारस्य सुख-शान्ति-समृद्धेः कामनां कृतवन्तः।
अस्मिन् समये सम्पूर्णः मन्दिर-परिसरः “सांचे-दरबार-की-जय”, “जय-माता-दी” इत्यादिभिः जयघोषैः निनादितः आसीत्।
उभयोः मन्दिरयोः प्रातःकाले महन्तस्य निरीक्षणे मातुः विग्रहस्य पञ्चामृत-स्नानं कृतम्। ततः अनन्तरं विग्रहं नूतन-वस्त्रैः भूषयित्वा श्रृंगारः कृतः। भोग-अर्पणानन्तरं मङ्गल-आरती कृता, ततः पश्चात् मन्दिरस्य द्वाराणि श्रद्धालुभ्यः उद्घाटितानि।----------
हिन्दुस्थान समाचार