Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 21 मार्चमासः (हि.स.)।उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र मोदी तथा गृहमन्त्री अमित शाहः शनिवासरे नवरोज्-अवसरे देशवासिभ्यः शुभाशंसाः अददुः।
उपराष्ट्रपतिः राधाकृष्णनः सामाजिकमाध्यमे एक्स् इति माध्यमे स्वसन्देशे उक्तवान् यत् नवरोज् इत्यस्य पावनः अवसरः सर्वेषां जीवनं सुखसमृद्ध्या उत्तमस्वास्थ्येन च पूरयतु। सः अपि कामनां कृतवान् यत् नववर्षं सर्वेषां कृते आनन्दपूर्णं भवेत्।
प्रधानमन्त्री नरेन्द्र मोदी अपि सामाजिकमाध्यमेन एक्स् देशवासिभ्यः शुभाशंसाः प्रेषितवान्। सः स्वसन्देशे लिखितवान् यत् एतत् नववर्षं सर्वेषां जीवनं समृद्ध्या सुखेन च पूरयतु। सः सर्वेषां उत्तमस्वास्थ्यस्य मनोकामनानां च पूर्तेः प्रार्थनां कृतवान्।
गृहमन्त्री अमित शाहोऽपि नवरोज्-अवसरे सर्वेभ्यः शुभाशंसाः दत्त्वा उत्तमस्वास्थ्यस्य समृद्धेः सुखस्य च कामनां व्यक्तवान्। सः स्वस्य एक्स्-सन्देशे उक्तवान् यत् नवरोज्-दिनः अस्माकं एकतां दृढीकरोतु तथा सर्वेषां कृते उत्तमस्वास्थ्यस्य समृद्धेः सुखस्य च द्वाराणि उद्घाटयतु।
उल्लेखनीयम् अस्ति यत् नवरोज् मुख्यतः ईरान-मध्य-एशिया-प्रदेशेषु पारसी-समुदायेन आचर्यमाणः नववर्षोत्सवः अस्ति। अयं प्रायः एकविंशतितमे मार्च-मासस्य वसन्तऋतौ आगच्छति। भारते अपि अयं विशेषतः पारसी-समुदायेन मुम्बई-पुणे-प्रदेशेषु महोत्साहेन आचर्यते।
-------------
हिन्दुस्थान समाचार