Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २१ मार्चमास: (हि.स.)। पश्चिम-बङ्गाल-राज्यस्य मुख्यमन्त्री ममता-बनर्जी बिहार-दिवसस्य अवसरे शनिवासरे जनान् प्रति शुभकामनाः अयच्छत्।
बनर्जी ‘एक्स’ इत्यत्र संदेशं प्रकाशितवती यत् बिहार-दिवसस्य शुभावसरे बिहारस्य तथा बिहार-संबद्धानां मम सर्वान् भ्रातॄन् भगिनी च प्रति मम हार्दिकाः शुभकामनाः।
तया स्वसन्देशे सर्वेषां उत्तम-स्वास्थ्यस्य सुख-समृद्धेः च कामना कृता, उक्तवती च यत् यूयं सर्वे स्वस्थाः स्यात, सुखिनः स्यात, प्रसन्नचित्ताः च स्यात; अस्माकं हृदयतः एषा एव प्रार्थना अस्ति। यूयं सर्वे बिहार-दिवसस्य अनन्ताः शुभकामनाः प्राप्नुत।
उल्लेखनीयम् अस्ति यत् बिहार-राज्यस्य गठनस्य स्मरणार्थं प्रतिवर्षं २२ मार्चमासे बिहार-दिवसः आचर्यते। अयं दिवसः तस्याः घटनायाः स्मरणाय आचर्यते यत् अस्मिन् एव दिने १९१२ तमे वर्षे आङ्ग्ल-शासकैः बङ्गाल-प्रदेशात् बिहार-राज्यं पृथक्कृतम् आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता