Enter your Email Address to subscribe to our newsletters

कोलकाता, 21 मार्चमासः (हि.स.)। पश्चिमबङ्गाले आगामिनि विधानसभानिर्वाचने सुरक्षा व्यवस्थायाः विषये निर्वाचन आयोगेन महता प्रमाणेन केन्द्रीयबलानां नियुक्तेः निर्णयः कृतः। राज्ये निर्वाचनस्य उभयोः चरणयोः कृते केन्द्रीयसशस्त्रपुलिसबलम्, इण्डिया रिजर्व बटालियन तथा अन्येषां राज्याणां सशस्त्रपुलिसबलानां कुलं २४०० कम्पन्यः नियुक्ताः भविष्यन्ति।
निर्वाचन आयोगेन शुक्रवासरे रात्रौ प्रकाशितायां अधिसूचनायां एषा सूचना प्रदत्ता। प्रथमचरणस्य मतदानं २३ एप्रिल् दिने, द्वितीयचरणस्य मतदानं च २९ एप्रिल् दिने भविष्यति। तस्यापूर्वमेव केन्द्रीयबलानां नियुक्तिः क्रियते।
अधिसूचनायामपि उक्तं यत् विशेषगहनपुनरीक्षण अभियानस्य समये “तार्किक विसङ्गति” श्रेण्यां न्यायिक अनुसन्धानार्थं प्रेषितानां प्रकरणानां प्रथमपूरकसूची अधुना २३ मार्च् दिने प्रकाशिताऽ भविष्यति। पूर्वं सा २० मार्च् दिने प्रकाशनीया आसीत्।
निर्वाचनात् पूर्वमेव अग्रिमनियुक्तेः अन्तर्गतं केन्द्रीयसशस्त्रपुलिसबलस्य ४८० कम्पन्यः पश्चिमबङ्गालं प्राप्ताः सन्ति।
अधिसूचनानुसारं द्वितीयचरणस्य मतदानसमाप्तेः अनन्तरं २०० कम्पन्यः इलेक्ट्रॉनिकमतदानयन्त्राणां, स्ट्राङ्गरूम्, मतगणनाकेन्द्राणां च सुरक्षाार्थं मतगणनासमाप्तिपर्यन्तं राज्ये एव स्थिताः भविष्यन्ति।
तदतिरिक्तं कानून व्यवस्था स्थापयितुं तथा निर्वाचनानन्तरं संभाव्यमानां हिंसां निवारयितुं ५०० कम्पन्यः आगामिनः आदेशपर्यन्तं राज्ये एव स्थास्यन्ति। वर्षे २०२१ विधानसभानिर्वाचने तथा २०२४ लोकसभानिर्वाचने अनन्तरं जाता हिंसा दृष्ट्वा एषः निर्णयः कृतः।
मतदानप्रक्रियायाः समाप्तेः अनन्तरं केन्द्रीयबलानां, इण्डिया रिजर्व बटालियन तथा अन्यराज्यसशस्त्रपुलिसबलानां शेषाः १७००संस्थाः प्रत्याहृताः भविष्यन्ति।
निर्वाचन आयोगेन राज्यसरकाराय निर्देशः दत्तः यत् सा केन्द्रीयबलैः, इण्डिया रिजर्व बटालियन, राज्यसशस्त्रपुलिसेन तथा मुख्यबलसमन्वयकेन सह मिलित्वा विस्तृतां नियुक्तियोजनां निर्मातु।
केन्द्रीयबलानां गमनागमनस्य नियुक्तेः च समन्वयः केन्द्रीय रिजर्व पुलिस बल द्वारा क्रियते। सीआरपीएफ पश्चिमबङ्गाल क्षेत्रस्य महानिरीक्षकः शलभ माथुरः निर्वाचनाय राज्यबलसमन्वयकत्वेन नामनिर्दिष्टः अस्ति।
अधिसूचनायां राज्यसर्वकारं प्रति अपि उक्तं यत् बलानां आवश्यकतानुसारं परिवहनं, रसदव्यवस्था, आवासः तथा अन्याः आवश्यकव्यवस्थाः सुनिश्चिताः क्रियन्ताम्।
हिन्दुस्थान समाचार