असमदेशे इस्लाम धर्मावलंबिनो मन्यन्ते रहे ईद-उल-फ़ितरम् उत्सवम्
गुवाहाटी, 21 मार्चमासः (हि.स.)। अद्य पवित्रं ईद्-उल्-फित्र् पर्व अस्ति। पवित्रस्य रमजान-मासस्य मासिक-उपवासस्य समाप्तौ शनिवासरे इस्लाम-धर्मावलम्बिनः जनाः ईद्-उल्-फित्र् इति पवित्रं उत्सवं आचरन्ति। केन्द्रीय-हिलाल-समित्या ईद्-दिनस्य घोषणानन्तरं देशे
ईद-उल-फ़ितर


गुवाहाटी, 21 मार्चमासः (हि.स.)। अद्य पवित्रं ईद्-उल्-फित्र् पर्व अस्ति। पवित्रस्य रमजान-मासस्य मासिक-उपवासस्य समाप्तौ शनिवासरे इस्लाम-धर्मावलम्बिनः जनाः ईद्-उल्-फित्र् इति पवित्रं उत्सवं आचरन्ति। केन्द्रीय-हिलाल-समित्या ईद्-दिनस्य घोषणानन्तरं देशे सर्वत्र, असम-राज्यस्य सर्वेषु भागेषु अपि, ईद्-उल्-फित्र् उत्सवः उल्लासेन आचर्यते।

उल्लेखनीयम् यत् ईद्-अवसरे इस्लाम-धर्मावलम्बिनां मध्ये हर्ष-उत्साहयोः वातावरणं दृश्यते। ईदगाह-प्राङ्गणे, मस्जिदेषु च सामूहिक-नमाज-आयोजनं कृतम्। प्रेम-भ्रातृत्वयोः सन्देशेन सह सर्वे परस्परं ईद्-शुभाशंसाः दत्तवन्तः। इस्लामिक-पञ्चाङ्गस्य दशमे मासि शव्वाल-मासस्य प्रथमदिने एव एतत् पवित्रं पर्व आचर्यते। सऊदी-अरब-देशे, यूएई-देशे तथा अन्येषु खाड़ी-देशेषु १८ मार्च् दिने ईद्-चन्द्रस्य अदर्शनात् तेषु देशेषु २० मार्च् दिने ईद्-उल्-फित्र् आचरितम्।

अस्मिन् वर्षे असम-राज्ये भारते च २१ मार्च् दिने पवित्रं ईद्-उल्-फित्र् आचर्यते। ईद्-अवसरे अद्य प्रातःकाले विभिन्नेषु ईदगाहेषु ईद्-नमाज-आयोजनस्य व्यवस्था कृता। अस्मिन् अवसरे मस्जिदाः, ईदगाहाः च सुन्दररूपेण अलङ्कृताः सन्ति। तथा एव धर्मावलम्बिनां निवासस्थानानि, मार्गाः, गृहाणि च शोभन-दीपमालाभिः अलङ्कृतानि सन्ति।

अस्मिन् काले निर्वाचन-परिस्थित्याः सन्दर्भे अपि यत् अस्मिन् उत्सवे काचिद् अप्रिय-स्थिति न उत्पद्येत, इति सुनिश्चितुं जिल्ला-पुलिस-प्रशासनं जिल्ला-प्रशासनं च विशेषान् उपायान् कृतवन्तौ।

हिन्दुस्थान समाचार