Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 21 मार्चमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी शनिवासरे देवीमातरं चन्द्रघण्टां समर्च्य एकं संस्कृतसुभाषितं साझीकृतवान् तथा देशवासिनां सुखसमृद्धिसौभाग्यानां कामनां कृतवान्।
प्रधानमन्त्री ‘एक्स’ नाम सामाजिकमाध्यमे स्वसन्देशे मातरं चन्द्रघण्टां प्रणम्य अलिखत् यत् माता सर्वेभ्यः शक्तिं समृद्धिं च सौभाग्ययुक्तं जीवनं ददातु। सः देव्या दिव्यस्वरूपस्य वर्णनं कुर्वन् एतत् संस्कृतश्लोकम् अपि साझीकृतवान्—
“पिण्डजप्रवरारूढा चण्डकोपास्त्रकैर्युता। प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता॥”
प्रधानमन्त्री स्वसन्देशे उक्तवान् यत् सिंहवाहिनी नानाशस्त्रसज्जिता च माता चन्द्रघण्टा स्वभक्तानां कष्टानि नाशयति तथा तेषां साहसं शक्तिं च ददाति। तेन प्रार्थितं यत् मातुः कृपया प्रत्येकस्य जीवनं सुखसमृद्धिभिः परिपूर्णं भवेत्।
---------------
हिन्दुस्थान समाचार