Enter your Email Address to subscribe to our newsletters

अधिकारी मरणात्
प्राग् चलचित्रं प्रसार्य मंत्रिणि गंभीरं आरोपम् अरोपयत्, मुख्यमंत्री मुख्य सचिवायाददात्परिशीलनाय आदेशम्
चंडीगढ़म्, 21 मार्चमासः (हि.स.)।
पञ्जाबस्य अमृतसरे नियुक्तः राज्य-वेयरहाउस-निगमस्य जिला-प्रबन्धकस्य आत्महत्यायाḥ प्रकरणं गम्भीरं जातम्। शनिवासरे तस्य अधिकारिणः कृतस्य एकस्य वीडियो अभिलेखस्य प्रसारणानन्तरं पञ्जाबस्य परिवहनमन्त्री लालजीत भुल्लरः स्वपदात् त्यागपत्रं दत्तवान्। मुख्यमंत्री भगवंत मानः पञ्जाबस्य मुख्यसचिवाय परीक्षणस्य आदेशान् दत्तवान्।
गगनदीप सिंह रंधावा अमृतसर-तरणतारणयोः सेवां दत्तवान् आसीत्। घटनानन्तरं तं एकस्मिन् निजचिकित्सालये प्रविष्टं कृतम्, यत्र चिकित्साकाले सः मृत्युम् अगच्छत्। मरणात् पूर्वं गगनदीपेन एकः वीडियो अभिलेखः कृतः, यस्मिन् सः पञ्जाबस्य परिवहनमन्त्रिणः लालजीत भुल्लरस्य नाम उक्तवान्।
विभागस्य समीपे एकस्य गोदामस्य कृते स्थानप्रदानस्य प्रस्तावः आगतः आसीत्। परीक्षणकाले विभागीयदलेन ज्ञातं यत् प्रस्तावितस्थानस्य उपरि उच्चदाब-विद्युत्ताराः गच्छन्ति, यत् सुरक्षादृष्ट्या न उचितम् आसीत्। अस्मात् कारणात् विभागेन सः प्रस्तावः निरस्तः। शुक्रवासरे अमृतसर-भ्रमणकाले मन्त्री लालजीत सिंह भुल्लरः अस्मिन् विषये कथिततया जिला-प्रबन्धके दबावं कृतवान्। तेन आहतः सन् गगनदीप सिंह रंधावा एतत् कदम् अकुरुत। विषं पीत्वा पूर्वं रंधावेन एकः वीडियो निर्माय समग्रं घटनाक्रमं वर्णितम्।
घटनानन्तरं पञ्जाबे महान् कोलाहलः जातः। अकालीनेता बिक्रमजीत मजीठिया मृतस्य वीडियो प्रकाशित्य मन्त्रिणः विरुद्धं प्रकरणस्य लेखनस्य मागं कृतवान्। अस्मिन् समये अमृतसरस्य सांसदः गुरजीत सिंह औजला चिकित्सालयं गत्वा मृतस्य परीक्षणं पीजीआई-मण्डलेन कर्तुम् आग्रहं कृतवान्। एतस्मिन्नन्तरे पञ्जाबस्य मुख्यमंत्री भगवंत सिंह मानः प्रकरणं गम्भीरतया गृहित्वा परिवहनमन्त्रिणः लालजीत भुल्लरस्य त्यागपत्रं स्वीकृतवान्। मुख्यमन्त्रिणा मुख्यसचिवाय निष्पक्षपरीक्षणस्य निर्देशाः दत्ताः। परिवहनमन्त्री लालजीत भुल्लरः सामाजिकमाध्यमे लिखितवान् यत् तस्य उपरि आरोपाः सर्वथा निराधाराः सन्ति। वर्तमानपरिस्थितिं दृष्ट्वा सः स्वयमेव स्वपदात् त्यागपत्रं दत्तवान्। सः अवदत् यत् अस्य प्रकरणस्य परीक्षणे मन्त्रिपदं बाधकं न भवेत्, सत्यं सर्वेषां पुरतः प्रकटिष्यते।
---------------
हिन्दुस्थान समाचार