सर्वकारस्य मुख्यः इव  नरेन्द्र मोदी अरचत् कीर्तिमानं, वरिष्ठनेतृभिः उक्तः सः  मीलप्रस्तरः
नव दिल्ली, 22 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी रविवासरे निरन्तरं ८,९३१ दिनानि यावत् शासनाध्यक्षरूपेण सेवां कृत्वा नूतनं कीर्तिमानं स्थापितवान्। सः सिक्किम-राज्यस्य पूर्व-मुख्यमन्त्री पवन कुमार चामलिंग इत्यस्य ८,९३० दिनानां अभिलेखं अ
प्रधानमंत्री नरेन्द्र मोदी


नव दिल्ली, 22 मार्चमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी रविवासरे निरन्तरं ८,९३१ दिनानि यावत् शासनाध्यक्षरूपेण सेवां कृत्वा नूतनं कीर्तिमानं स्थापितवान्। सः सिक्किम-राज्यस्य पूर्व-मुख्यमन्त्री पवन कुमार चामलिंग इत्यस्य ८,९३० दिनानां अभिलेखं अतिक्रमितवान्।

अमित शाह, राजनाथ सिंह तथा रेखा गुप्ता सहिताः भाजपादलस्य प्रमुखाः नेतारः एतां उपलब्धिं अटूट-प्रतिबद्धतायाः जनसेवायाः च मीलस्तम्भरूपेण निरूपितवन्तः। अस्मिन् गुजरात-राज्यस्य मुख्यमन्त्रिरूपेण तस्य त्रयः कार्यकालाः प्रधानमन्त्रिरूपेण वर्तमानः तृतीयः कार्यकालः च अन्तर्भवन्ति।

चतुर्विंशतिवर्षाधिके अस्मिन् दीर्घकाले सः एकमपि अवकाशदिवसं न स्वीकृतवान्।

गृहमन्त्री अमित शाह एक्स-माध्यमे अवदत्— “एषः अभिलेखः सेवा-परिश्रम-अटूट-प्रतिबद्धतानां आधारस्य उपरि स्थापितः अस्ति। मोदी-नाम्नः ८,९३१ दिनानि राष्ट्र-प्रथम-शासनस्य कार्येषु सत्यनिष्ठायाः च द्योतकानि सन्ति। सः विना अवकाशं राष्ट्रसेवां कृतवान्, अत एव तस्मै जनतायाः अभूतपूर्वः स्नेहः प्राप्तः।”

रक्षामन्त्री राजनाथ सिंह अभिनन्दनं कृत्वा उक्तवान् यत् अधुना प्रधानमन्त्री मोदी भारते दीर्घतमकालपर्यन्तं सेवां कृतवान् शासनाध्यक्षः अभवत्। गुजरातस्य मुख्यमन्त्रिणः पदात् आरभ्य देशस्य प्रधानमन्त्रिपदपर्यन्तं तस्य जीवनं निरन्तर-सेवायाः मार्गः आसीत्। एषा उपलब्धिः तस्य समर्पित-नेतृत्वस्य राष्ट्रे प्रति समर्पणस्य च प्रमाणम् अस्ति।

दिल्ली-राज्यस्य मुख्यमन्त्री रेखा गुप्ता एतां उपलब्धिं ‘अन्त्योदय’-संकल्पस्य सिद्धिरिति उक्तवती। सा अवदत् यत् मोदी विकासस्य नूतनां परिभाषां निर्मितवान्। तस्य दूरदर्शिनः साहसिकनिर्णयाः च कोटिशः देशवासिनां विश्वासं जितवन्तः, ये अस्माकं सर्वेषां कृते प्रेरणास्रोतः सन्ति।

---------------

हिन्दुस्थान समाचार