Enter your Email Address to subscribe to our newsletters

पटनानगरम्, २२ मार्चमासः (हि.स.)। बिहार-राज्यस्य राजधान्यां पटनानगरे आयोजिते ‘बिहार-स्पोर्ट्स-कॉन्क्लेव-२०२६’ इत्यस्मिन् क्रीडा-विकासस्य विषये व्यापक-दृष्टिकोणस्य दृश्यं दृष्टम्। अस्मिन् कार्यक्रमे केन्द्रीय-युवा-कार्य-एवं-क्रीडा-राज्यमन्त्री रक्षा-खडसे तथा बिहार-राज्यस्य क्रीडा-मन्त्री श्रेयसी-सिंह उपस्थितौ आस्ताम्। अस्मिन् अवसरे बिहारं राष्ट्रीय-स्तरे एव न, अपितु अन्ताराष्ट्रिय-क्रीडा-मानचित्रे स्थापयितुं महत्त्वपूर्णाः विचाराः प्रस्तुताः।
केन्द्रीय-मन्त्री रक्षा-खडसे स्वसम्बोधने बिहार-दिवसस्य शुभाशंसाः दत्त्वा उक्तवती यत् बिहारः प्रतिभानां भूमिः अस्ति, यत्र क्रीडासु स्वाभाविकः उत्साहः दृश्यते। सा अवदत् यत् बालका: आरम्भिक-स्तरात् एव क्रीडासु प्रेरयितव्या: तथा क्रीडा-विज्ञानम् (स्पोर्ट्स-साइन्स) इत्यनेन सह सम्बद्धान् कर्तव्यम्, येन ते व्यावसायिक-स्तरे उत्तमं प्रदर्शनं कर्तुं शक्नुयुः।
सा अवदत् यत् राज्ये क्रीडाः ग्राम-स्तरं प्रति प्रसारयितुं दृढ-पदानि क्रियन्ते। मनरेगा-योजनायाः अन्तर्गतं ग्राम्य-क्षेत्रेषु क्रीडा-प्रांगणानि निर्मीयन्ते, येन स्थानीय-युवानः उत्तमान् अवसरान् प्राप्नुयुः। अस्य आदर्शस्य अनुसरणं केन्द्र-सर्वकारेण अपि कृतम्, येन देशव्यापि क्रीडा-सुविधासु सुदृढता अपेक्ष्यते।
रक्षा-खडसे उक्तवती यत् केन्द्र-सर्वकारः राज्यैः सह क्रीडानां समग्र-विकासाय कार्यं कुर्वन् अस्ति। ‘खेलो-इण्डिया-अभियानम्’ इत्यादिभिः योजनाभिः देशे सुदृढं क्रीडा-परितन्त्रं निर्मीयते। सा अवदत् यत् विशाल-क्रीडा-आयोजनानि क्रीडकाणां कृते अवसरं ददति, अपि च क्रीडा-पर्यटनस्य अपि संवर्धनं कुर्वन्ति, येन स्थानीय-अर्थव्यवस्थायाः लाभः भवति।
बिहार-राज्यस्य क्रीडा-मन्त्री श्रेयसी-सिंह: स्वागत-भाषणे राज्ये क्रीडा-विकासे सर्वकारस्य प्रतिबद्धतां पुनरुक्तवती। सा अवदत् यत् राज्ये क्रीडकाणां प्रशिक्षणं, आधुनिक-सुविधाः तथा आधारभूत-संरचनानां विकासः शीघ्रतया क्रियते। बहूनि अन्ताराष्ट्रिय-स्तरस्य क्रीडाङ्गणानि अपि निर्मितानि सन्ति।
श्रेयसी-सिंह: केन्द्र-सर्वकारात् आग्रहं कृत्वा अवदत् यत् यदि भारतदेशः २०३६ तमे वर्षे ओलम्पिक्-क्रीडानां आयोजन-अवसरं लभते, तर्हि बिहार-राज्ये अपि एकस्य द्वयोः वा क्रीडानां आयोजनं कर्तव्यम्। तदतिरिक्तं कॉमनवेल्थ-गेम्स इत्यस्य केचन स्पर्धा-कार्यक्रमाः अपि राज्ये आयोजनीयाः।
विशेषज्ञाः मन्यन्ते यत् यदि बिहार-राज्ये अन्ताराष्ट्रिय-क्रीडा-आयोजनानि भवन्ति, तर्हि क्रीडा-पर्यटनाय नूतना दिशा प्राप्ता भविष्यति। होटल-परिवहन-रोजगार-स्थानीय-व्यवसायाः च प्रत्यक्षं लाभं प्राप्स्यन्ति। सहैव राज्यस्य क्रीडकाः स्वगृहे एव अन्ताराष्ट्रिय-अनुभवं प्राप्स्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता