बॉक्स-ऑफिस-इत्यत्र 'धुरंधर 2' इत्यस्य गर्जना
बलिवुड-अभिनेता रणवीर-सिंहः निर्देशकः आदित्य-धरः च इत्येताभ्यां निर्मितः चित्रपटः ‘धुरंधर 2: द रिवेंज’ बॉक्स-ऑफिस-इत्यस्मिन् अभूतपूर्वं प्रदर्शनं कुर्वन् वर्तते। चित्रपटेन प्रकाशनस्य केवलं त्रि-दिनैः एव जगति ५०० कोटि-रूप्यकाणि अर्जितानि, नवीनं कीर्त
रणवीर सिंह - फोटो सोर्स एक्स


बलिवुड-अभिनेता रणवीर-सिंहः निर्देशकः आदित्य-धरः च इत्येताभ्यां निर्मितः चित्रपटः ‘धुरंधर 2: द रिवेंज’ बॉक्स-ऑफिस-इत्यस्मिन् अभूतपूर्वं प्रदर्शनं कुर्वन् वर्तते। चित्रपटेन प्रकाशनस्य केवलं त्रि-दिनैः एव जगति ५०० कोटि-रूप्यकाणि अर्जितानि, नवीनं कीर्तिमानं स्थापयितुं समर्थम्। भारतदेशे अपि एषः चित्रपटः ३०० कोटि-रूप्यकाणां क्लबमध्ये प्रविष्ट:, यस्मात् तस्य सफलतायाः आभासः प्राप्यते।

व्यापार-प्रतिवेदनानुसारं चित्रपटेन तृतीयदिने (शनिवासरे) भारतदेशे ११३ कोटि-रूप्यकाणां व्यापारः कृतः, यस्मिन् हिन्दी-संस्करणस्य सङ्ग्रहः १०५ कोटि-रूप्यकाणि आसीत्। एतेन सहितं चित्रपटस्य आहत्य स्वदेशीय-बॉक्स-ऑफिस-सङ्ग्रहः ३३९.२७ कोटि-रूप्यकाणि। केवलं त्रिदिनैः ३०० कोटि-रूप्यकाणि पारं कर्तुं प्राप्ता महत्त्वपूर्णा उपलब्धिः, या चित्रपटस्य व्यापक-लोकप्रियतां दर्शयति।

चित्रपटस्य सफलतायां दर्शकाणां सकारात्मक-प्रतिक्रियाः तथा मौखिक-प्रशंसायाः महत्त्वपूर्णं योगदानम् आसीत्। सामाजिक-माध्यमेषु रणवीर-सिंहस्य अभिनयं तथा आदित्य-धरस्य निर्देशनं इत्येताभ्यां महती प्रशंसा लभते। ईद-सप्ताहान्तस्य लाभः अपि चित्रपटेन गृहीतः, तथा व्यापार-पण्डिताः मन्यन्ते यत् उद्घाटन-सप्ताहान्ते एषः चित्रपटः ४००-५०० कोटि-रूप्यकाणां व्यापारं कर्तुं समर्थः।

चित्रपटे आर-माधवन्, संजय-दत्तः, अर्जुन्-रामपालः, राकेश-बेदी च महत्त्वपूर्णेषु भूमिषु दृश्यन्ते। ‘धुरंधर 2’ एकः ऐक्शन-थ्रिलर-चित्रपटः, यस्मिन् रणवीर-सिंहः गुप्तचर: हमजा-अली-मजारि इत्यस्य पात्रे दृश्यते।

पवन-कल्याणस्य चित्रपटः ‘उस्ताद-भगत-सिंहः’ अपि ‘धुरंधर 2’ इत्यस्मात् तीव्रां प्रतिस्पर्धां प्राप्नोति। एषः प्रथम-दिने ३४.७५ कोटि:, द्वितीय-दिने ९ कोटि:, तृतीय-दिने ९.१५ कोटि-रूप्यकाणां आयं कृतवान्। एवं भारतदेशे तस्य आहत्य-संग्रहः ५२.९० कोटि-रूप्यकाणि प्राप्तः, किन्तु ‘धुरंधर 2’ इत्यस्य वायुना तस्य गति: मन्दा वर्तते।

हिन्दुस्थान समाचार / अंशु गुप्ता