Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 22 मार्चमासः (हि.स.)।
भारत निर्वाचन आयोग मतदातॄणां अनुभवम् सुखदं सुलभं च कर्तुं ‘न्यूनतमसुविधाः’ (एएमएफ) तथा ‘मतदाता-सहायता’ इत्येतयोः विषये कठोरान् निर्देशान् निर्गतवान्।
निर्वाचन-राज्यानां मुख्यनिर्वाचनाधिकारिणः (सीईओ) प्रति निर्देशाः दत्ताः यत् सर्वेषु २,१८,८०७ मतदानकेन्द्रेषु सर्वाः आवश्यकाः सुविधाः अनिवार्यतया उपलब्धाः स्युः।
आयोगेन मतदानकेन्द्रेषु आधारभूत-संरचनाया दृढीकरणे विशेषः बलः प्रदत्तः। एतेषु मतदानसुविधाकेन्द्रेषु (एएमएफ) पेयजलम्, छायायुक्तं प्रतीक्षाक्षेत्रम्, जलसुविधायुक्तं शौचालयम्, पर्याप्तप्रकाशः, दिव्याङ्गमतदातॄणां कृते यथोचित-ढालु-रैम्पः, मानक-मतदानकक्षाः, यथोचिताः संकेतकाः च अन्तर्भवन्ति।
मतदानाधिकारिणः अपि निर्देशिताः यत् ते कतारायां नियमितान्तरालेषु आसन्दिकाः स्थापयन्तु, येन मतदातारः स्वपङ्क्तेः प्रतीक्षाकाले उपविष्टुं शक्नुवन्ति।
अतिरिक्ततया मतदातृ-जागरूकतां वर्धयितुं सर्वेषु मतदानकेन्द्रेषु चत्वारः समानरूपेण मानकीकृताः मतदातृ-सुविधा-पोस्टराः (वीएफपी) प्रमुखतया प्रदर्शनीयाः भविष्यन्ति। तेषु मतदानकेन्द्रस्य विवरणम्, अभ्यर्थिनां सूची, करणीय-अकरणीय-निर्देशाः, मान्य-परिचय-पत्राणां सूची, मतदान-प्रक्रियायाः सूचना च भविष्यति।
अस्मिन् निर्वाचने प्रौद्योगिकी-सहायतयोः विशेषः ध्यानः कृतः अस्ति। प्रत्येकस्मिन् मतदानकेन्द्रे मतदाता-सहायता-केन्द्राणि (वीएबी) स्थापनीयानि, यत्र बूथ-स्तरीय-अधिकारी (बीएलओ) तथा कर्मकराः सन्ति, ये मतदातॄन् स्वस्य मतदानकेन्द्रस्य क्रमाङ्कं नामावल्यां च अन्वेष्टुं साहाय्यं करिष्यन्ति। एतेषु केन्द्रेषु प्रमुख-संकेताः भविष्यन्ति, ये मतदान-परिसरं प्रविशन्तः एव सुलभतया दृश्यन्ते।
मतदातॄणां सुविधार्थं अन्येषां उपायानां मध्ये एकः उपायः अस्ति यत् मतदानकेन्द्रस्य प्रवेशद्वारस्य बहिः दूरवाणी-यन्त्र-निक्षेपण-सुविधा उपलब्धा भविष्यति। मतदातारः केन्द्रं प्रविश्य पूर्वं स्वस्य दूरवाणी-यन्त्रं (निष्क्रियीकृत्य) निर्दिष्ट-स्वयंसेवकाय समर्पयित्वा मतदानानन्तरं पुनः प्राप्स्यन्ति।
निर्वाचन-आयोगेन स्पष्टतया उक्तं यत् एते सर्वे उपायाः अनिवार्याः सन्ति, तेषां कठोरतया पालनं कर्तव्यम्। सर्वे क्षेत्र-अधिकारिणः निर्देशिताः यत् मतदान-तिथेः पूर्वमेव एताः व्यवस्थाः सम्यक् सुसज्जाः कुर्वन्तु, येन मतदातारः किमपि असुविधां न अनुभविष्यन्ति।
---------------
हिन्दुस्थान समाचार