कर्नाटक उपनिर्वाचनाय कांग्रेसदलं द्वयोः प्रत्याशिनोः नामनी घोषितवत्
नवदिल्ली, 22 मार्चमासः (हि.स.)। भारतीय राष्ट्रिय कांग्रेस दलं कर्नाटक-राज्ये भविष्यत् विधानसभाया उपनिर्वाचनार्थं द्वयोः अभ्यर्थिनोः सूचीं प्रकाशितवत्। दलाध्यक्षः मल्लिकार्जुन खरगे अभ्यर्थिनां नामानि अनुमोदितवान्। दलस्य महासचिवः केसी वेणुगोपाल अवदत
कांग्रेस पार्टी


नवदिल्ली, 22 मार्चमासः (हि.स.)। भारतीय राष्ट्रिय कांग्रेस दलं कर्नाटक-राज्ये भविष्यत् विधानसभाया उपनिर्वाचनार्थं द्वयोः अभ्यर्थिनोः सूचीं प्रकाशितवत्। दलाध्यक्षः मल्लिकार्जुन खरगे अभ्यर्थिनां नामानि अनुमोदितवान्।

दलस्य महासचिवः केसी वेणुगोपाल अवदत् यत् दलः बागलकोट (२४) विधानसभाक्षेत्रात् उमेश मेटी इत्यं अभ्यर्थिनं नियुक्तवान्। तथा च दावणगेरे-दक्षिण (१०७) क्षेत्रात् समर्थ-मल्लिकार्जुन इत्यस्मै टिकट् प्रदत्तम्।

कर्नाटक-राज्ये एतेषु द्वयोः आसनेषु ९ एप्रिल् दिने उपनिर्वाचनं प्रस्तावितम् अस्ति।

---------------

हिन्दुस्थान समाचार