केसी त्यागी रालोदे सम्मिलितः, कथितवान्-अधुनापि नीतीशस्य सम्मानः
नव दिल्ली, 22 मार्चमासः (हि.स.)। जनता दल (यूनाइटेड) इत्यस्मात् दलात् हालमेव त्यागपत्रं दत्तवान् वरिष्ठः नेता के.सी. त्यागी रविवासरे राष्ट्रिय लोकदल इति दले सम्मिलितम् अभवत्। केन्द्रीयमन्त्री तथा रालोदाध्यक्षः जयंत चौधरी तं औपचारिकरूपेण दलमध्ये सम्म
केसी त्यागी


नव दिल्ली, 22 मार्चमासः (हि.स.)। जनता दल (यूनाइटेड) इत्यस्मात् दलात् हालमेव त्यागपत्रं दत्तवान् वरिष्ठः नेता के.सी. त्यागी रविवासरे राष्ट्रिय लोकदल इति दले सम्मिलितम् अभवत्। केन्द्रीयमन्त्री तथा रालोदाध्यक्षः जयंत चौधरी तं औपचारिकरूपेण दलमध्ये सम्मिलितवान्।

के.सी. त्यागी इत्यनेन २००३ तमे वर्षे समता पार्टी इत्यस्मात् आरभ्य जद (यू) इत्यस्मिन् दले अनेकानि वरिष्ठपदानि वहितानि। सः जद (यू) दलस्य मुख्यमहासचिवः, मुख्यप्रवक्ता तथा राजनैतिकसलाहकारः अपि आसीत्। मन्यते यत् नीतीश कुमारस्य बिहारराज्यस्य मुख्यमन्त्रिपदात् त्यागपत्रं दत्त्वा राज्यसभा सदस्यरूपेण केन्द्रे प्रवेशेन सः जद (यू) दलात् पृथक् अभवत्। तथापि तेन जद (यू) त्यागस्य किमपि कारणं न निर्दिष्टम्।

रालोददले सम्मिलितं सत् अपि तेन जद (यू) प्रति किमपि नकारात्मकं वक्तव्यं न कृतम्। सः अवदत् यत् सः नीतीश कुमारस्य प्रति पूर्णं सम्मानं धारयति। जद (यू) तथा रालोदयोः मध्ये साम्यता अस्ति। उभे अपि दलौ चौधरी चरण सिंह, कर्पूरी ठाकुर तथा राममनोहर लोहिया इत्येषां विचारैः प्रेरितौ स्तः तथा तेषां आदर्शान् अनुसरतः।

-------

हिन्दुस्थान समाचार