किशनगंजमध्ये एल.पी.जी.वाते: आपूर्ति: सामान्या — गृह-वितरणव्यवस्था सुचारु
किशनगंजनगरम्, २२ मार्चमासः (हि.स.)। जनपदे एल.पी.जी.वाते: उपलब्धता तथा आपूर्तिव्यवस्था पूर्णतः सामान्या वर्तते।रविवासरे जनपदाधिकारी विशालराज: उक्तवान् यत् वर्तमानकाले जनपदे एल.पी.जी.अनिलकोषाणां पर्याप्तः भाण्डारः उपलब्धः अस्ति तथा काचित् न्यूनता नास
किशनगंज में एलपीजी गैस की आपूर्ति सामान्य, होम डिलीवरी व्यवस्था सुचारू


किशनगंजनगरम्, २२ मार्चमासः (हि.स.)। जनपदे एल.पी.जी.वाते: उपलब्धता तथा आपूर्तिव्यवस्था पूर्णतः सामान्या वर्तते।रविवासरे जनपदाधिकारी विशालराज: उक्तवान् यत् वर्तमानकाले जनपदे एल.पी.जी.अनिलकोषाणां पर्याप्तः भाण्डारः उपलब्धः अस्ति तथा काचित् न्यूनता नास्ति।

स: अवदत् यत् अद्य जनपदे १०,११९ तः अधिकाः अनिलकोषा: भाण्डारे उपस्थिता:। डी.एम. उक्तवान् यत् उपभोक्तृणां सुविधार्थं अनिलकोषाणां गृह-वितरणव्यवस्था सुचारुरूपेण सञ्चालिता अस्ति। अतः उपभोक्तृणां कृते एजेंसी प्रति गन्तुं आवश्यकता नास्ति, ते गृहे एव बुकिंगं कर्तुं शक्नुवन्ति, द्वि-त्रि-दिनेषु अनिलकोषस्य आपूर्ति: सुनिश्चिता भवति।

प्रशासनानुसारं, नगरक्षेत्रे उपभोक्तार: २५ दिनानन्तरं तथा ग्रामिण क्षेत्रे ४५ दिनानन्तरं पुनः बुकिंगं कर्तुं शक्नुवन्ति। तथा कालाबाजारी-जमाखोरी इति च निरोधार्थं प्रशासनतः नियमित-निरीक्षणम् अपि क्रियते। कस्यापि प्रकारस्य धूर्तता दृष्टा चेत् कठोरा कार्यवाही भविष्यति।

सामान्यजनानां समस्यानां त्वरित-समाधानाय जनपद-प्रशासनद्वारा कंट्रोल-रूम अपि संस्थापितः, यः प्रतिदिनं प्रातः ७ वादनात् रात्रौ ९ वादनपर्यन्तं सञ्चाल्यते। कंट्रोल-रूम-इत्यस्य दूरभाष-संख्या 06456-225152 अस्ति। एल.पी.जी. गैससम्बद्धाः प्राप्ताः सूचना: त्वरितरूपेण निष्पादिताः।

जनपद-प्रशासनं जनान् आवेदयति यत् लाते: उपलब्धता सम्बन्धि कस्यापि प्रकारस्य मिथ्याप्रचारेषु न विश्वासं कुर्युः तथा निश्चित-प्रक्रियायाः अधीनं अनिलकोषस्य उपयोगं कुर्वन्तु।

हिन्दुस्थान समाचार / अंशु गुप्ता