प्रधानमंत्री मोदी जातो देशस्य सर्वतः अधिकं समयं यावत् सर्वकारप्रमुखः नेता
नवदिल्ली, 22 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी इत्येषः पवन कुमार चामलिंग इत्यस्य अभिलेखं अतिक्रम्य देशे दीर्घतमकालपर्यन्तं शासनाध्यक्षरूपेण स्थितस्य कीर्तिम् अलभत। भारतीय जनता पार्टी आईटी विभागस्य प्रमुखः अमित मालवीय सामाजिकमाध्यममञ
पंतप्रधान नरेंद्र मोदी


नवदिल्ली, 22 मार्चमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी इत्येषः पवन कुमार चामलिंग इत्यस्य अभिलेखं अतिक्रम्य देशे दीर्घतमकालपर्यन्तं शासनाध्यक्षरूपेण स्थितस्य कीर्तिम् अलभत।

भारतीय जनता पार्टी आईटी विभागस्य प्रमुखः अमित मालवीय सामाजिकमाध्यममञ्चे एक्स इत्यत्र लेखम् प्रकाशितवान् यत् पवन कुमार चामलिंगः ८९३० दिनानि मुख्यमन्त्रिरूपेण कार्यं कृतवान्। अद्य तु नरेन्द्र मोदी मुख्यमन्त्रित्वेन प्रधानमन्त्रित्वेन च समग्रतः ८९३१ दिनानि पूर्णानि कृतवान्।

सः अवदत् यत् एषा उपलब्धिः दशकैः यावत् निरन्तरं सार्वजनिकसेवां नेतृत्वं च दर्शयति।

अमित मालवीयः अपि अवदत् यत् नरेन्द्र मोदी इत्यस्य नाम्नि बहवः विशिष्टाः अभिलेखाः निबद्धाः सन्ति। सः गुजरातराज्यस्य दीर्घतमकालपर्यन्तं सेवां कृतवान् मुख्यमन्त्री आसीत्। तथा च सः एव प्रधानमन्त्री अस्ति यस्य मुख्यमन्त्रित्वे दीर्घतमः अनुभवः अस्ति।

तत् अपि उक्तम् यत् नरेन्द्र मोदी स्वातन्त्र्योत्तरकाले जन्म लब्धवान् प्रथमः प्रधानमन्त्री अस्ति। अपि च सः २०१४, २०१९, २०२४ इत्येषु लोकसभानिर्वाचनेषु निरन्तरं त्रिवारं विजयम् प्राप्तवान्।

---------------

हिन्दुस्थान समाचार