नेपाले वरिष्ठः सांसदः अर्जुन-नरसिंह-केसी प्रोटेम-अध्यक्ष: नियुक्तः
काठमाण्डूनगरम्, २२ मार्चमासः (हि.स.)। नेपालदेशे नवनिर्वाचित-सांसदेषु वरिष्ठतमः सांसदः अर्जुन-नरसिंह-केसी प्रोटेम-अध्यक्षः नियुक्तः। राष्ट्रपतिना रामचन्द्र-पौडेल-नाम्ना अद्य तस्य अस्मिन् पदे नियुक्तिः कृता। राष्ट्रपति-भवनतः निर्गते वक्तव्ये उक्तं य
अर्जुन नरसिंह केसी


काठमाण्डूनगरम्, २२ मार्चमासः (हि.स.)। नेपालदेशे नवनिर्वाचित-सांसदेषु वरिष्ठतमः सांसदः अर्जुन-नरसिंह-केसी प्रोटेम-अध्यक्षः नियुक्तः। राष्ट्रपतिना रामचन्द्र-पौडेल-नाम्ना अद्य तस्य अस्मिन् पदे नियुक्तिः कृता।

राष्ट्रपति-भवनतः निर्गते वक्तव्ये उक्तं यत् प्रोटेम-अध्यक्षरूपेण अर्जुन-नरसिंह-केसी इत्यस्य शपथ-ग्रहणं अग्रिमे २५ मार्च-मासे भविष्यति। ज्येष्ठ-सदस्यरूपेण केसी राष्ट्रपतिन: समक्षं शपथं ग्रहीष्यति। राष्ट्रपति-कार्यालयस्य अनुसारं तस्य शपथ-ग्रहणं प्रातः ११ वादने निश्चितम्।

नेपाली-काङ्ग्रेस-दलस्य सांसदः अर्जुन-नरसिंह-केसी ७८-वर्षीयः अस्ति तथा वर्तमान-प्रतिनिधि-सभायाः वरिष्ठतमः सदस्यः अस्ति। सः नेपाली-काङ्ग्रेस-दलस्य पक्षात् समानुपातिक-प्रणाल्याः अन्तर्गतं सांसदः अभवत्।

शपथ-ग्रहणानन्तरं केसी प्रतिनिधि-सभायाः अन्यान् सांसदान् शपथं ग्राहयिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता