Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, २२ मार्चमास: (हि.स.)। नवनिर्वाचित-प्रतिनिधि-सभासदानां शपथ-ग्रहण-समारोहस्य सुरक्षा-संवेदनशीलतां दृष्ट्वा नेपाल-आरक्षकस्य अतिरिक्त-महानिरीक्षकौ (ए.आई.जी.) ईश्वर-कार्की उमा-प्रसाद-चतुर्वेदी च नवनिर्मित-संसद-भवनस्य स्थल-निरीक्षणं कृतवन्तौ।
ताभ्यां शपथ-ग्रहण-दिने संभाव्य-जनसमूहः, विशिष्ट-व्यक्तिनां आवागमनं तथा समग्र-सुरक्षा-व्यवस्था इत्यादिषु विषयेषु सूचना गृहीता। ए.आई.जी.-द्वयेन सुरक्षा-प्रबन्धनेन सह तस्मिन् क्षेत्रे यातायात-व्यवस्थां सुदृढीकर्तुं अधीनस्थ-निकायान् निर्देशाः अपि दत्ताः।
नवनिर्वाचित-जनप्रतिनिधीनां प्रथमवारं नूतन-संसद-भवने प्रवेशस्य अस्य ऐतिहासिक-अवसरस्य भव्यतया सुरक्षिततया च आयोजनार्थं सुरक्षा-संस्था: तथा संसद-सचिवालयः समन्वित-रूपेण कार्यं कुर्वन्ति।
अग्रिमे २६ मार्च-मासे भविष्यति शपथ-ग्रहण-समारोहः। संसद-भवनस्य अन्तः प्रतिनिधि-सभायाः मुख्य-सभाकक्षः अद्यापि पूर्णतया सज्जः नास्ति इति कारणेन बहुउद्देश्यीय-सभागृहस्य वैकल्पिक-रूपेण उपयोगः क्रियते।
संघीय-संसदस्य सहसचिवा बबीता-मिश्रा इत्यस्याः अनुसारं बहुउद्देश्यीय-सभागृहे सभामुखस्य आसनं तथा सत्तापक्ष-विपक्षयोः कृते दक्षिण-वाम-पार्श्वयोः आसन-व्यवस्था कृता अस्ति।
सभागृहे आसन्दानां माइक्रोफोन-यन्त्राणां च व्यवस्था पूर्णा अभवत्, विद्युत्-स्थापनं रंग-रोगन-कार्यं च अन्तिम-चरणे वर्तते। शपथ-ग्रहणात् अतिरिक्तं प्रतिनिधि-सभायाः प्रारम्भिक-सभा अपि अस्मिन्नेव सभागृहे अस्थायी-रूपेण सञ्चालयितुं व्यवस्था कृता अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता