कंबोडियायाः मंदिरस्य जीर्णोद्धारं द्रष्टुं प्राप्नोत् सचिव पी. कुमारन्
नव दिल्ली, 22 मार्चमासः (हि.स.)। विदेशमन्त्रालयस्य पूर्वीयक्षेत्रस्य सचिवः पी. कुमारन रविवासरे कंबोडियादेशस्य प्रसिद्धं ता प्रोहम मन्दिरं अवलोकितवान्। अयं दौरा विशेषतया तत्र प्रचलमानानां संरक्षण तथा जीर्णोद्धारकार्याणां प्रगतेः समीक्षार्थं कृतः आ
ता प्रोहम मंदिर के जीर्णोद्धार कार्य का जायजा लेने पहुंचे सचिव पी. कुमारन


नव दिल्ली, 22 मार्चमासः (हि.स.)।

विदेशमन्त्रालयस्य पूर्वीयक्षेत्रस्य सचिवः पी. कुमारन रविवासरे कंबोडियादेशस्य प्रसिद्धं ता प्रोहम मन्दिरं अवलोकितवान्। अयं दौरा विशेषतया तत्र प्रचलमानानां संरक्षण तथा जीर्णोद्धारकार्याणां प्रगतेः समीक्षार्थं कृतः आसीत्। ता प्रोहम मन्दिरस्य जीर्णोद्धारकार्यस्य नेतृत्वं भारतीयपुरातत्वसर्वेक्षणेन क्रियते। अस्य मन्दिरस्य जीर्णोद्धारस्य द्वौ चरणौ सफलतया सम्पन्नौ स्तः, अधुना तृतीयः चरणः प्रवर्तते।

एषा परियोजना न केवलं दक्षिणपूर्वएशियायाः सांस्कृतिकविरासतां संरक्षितुं भारतस्य प्रतिबद्धतां दर्शयति, अपि तु उभयोः देशयोः मध्ये सभ्यतासम्बन्धान् अपि अधिकं सुदृढान् करोति। उल्लेखनीयम् अस्ति यत् विश्वस्य महत्तमानां मन्दिराणां मध्ये एकः कंबोडियादेशस्य अंकोरवाट् मन्दिरः अपि भारतीयपुरातत्वसर्वेक्षणेन एव जीर्णोद्धारितः। अंकोरवाट् मन्दिरः भगवान् विष्णवे समर्पितः अस्ति, यदा तु ता प्रोहम मन्दिरः महायानबौद्धमन्दिरः अस्ति। एतत् मन्दिरं राजा जयवर्मन सप्तमेन निर्मापितम्।

एतयोः उभयोः मन्दिरयोः जीर्णोद्धारकार्ये १९८६ तः १९९३ पर्यन्तं साहाय्यं दातुं भारतः प्रथमः देशः आसीत्। ततः आरभ्य भारतः अस्य परियोजनायाः सह निरन्तरं सम्बद्धः अस्ति।

---------------

हिन्दुस्थान समाचार