Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २२ मार्चमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना रविवासरे बिहार-दिवसस्य अवसरस्य उपलक्ष्ये बिहार-राज्यस्य जनतायै शुभाशंसाः प्रदत्ताः, तथा च उक्तं यत् बिहारः दीर्घकालात् भारतीय-धरोहरस्य गौरवं दिव्यता च प्रदत्तवान् अस्ति।
प्रधानमन्त्रिणा ‘एक्स’ इति सामाजिक-माध्यमे लिखितम्— “बिहार-दिवसस्य अवसरस्य उपलक्ष्ये राज्यस्य मम सर्वेभ्यः परिवारजनेभ्यः हार्दिकाः शुभाशंसाः। भारतीय-धरोहरस्य भव्यतां दिव्यतां च दातुं समर्थः अयं अस्माकं प्रदेशः अद्य प्रगतेः नित्य-नूतनान् अध्यायान् निर्मातुम् प्रवृत्तः अस्ति। मम विश्वासः अस्ति यत् विकसित-बिहारेण सह विकसित-भारतस्य संकल्पं साकारयितुं अत्रस्थाः कर्मठाः ऊर्जावन्तश्च जनाः स्वसमर्पणेन सामर्थ्येन च महत् योगदानं अयच्छन्।
हिन्दुस्थान समाचार / अंशु गुप्ता