Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 22 मार्चमासः (हि.स.)।
उत्तरप्रदेशस्य मीरजापुर-जनपदे चुनार-क्षेत्रे अदलपुरा-स्थाने स्थिते बृहत् शीतला-माता-धाम्नि चैत्र-नवरात्रस्य चतुर्थे दिने रविवासरे श्रद्धालूनां जनसैलाबः उमडितः। शनिवासरस्य रात्रेः एव भक्तानां आगमन-क्रमः आरब्धः, यः प्रभातकालपर्यन्तं निरन्तरं प्रवृत्तः।
प्रातःकाले प्रायः त्रिवादने मङ्गलारत्याः अनन्तरं मन्दिरस्य कपाटाः श्रद्धालूनां दर्शन-पूजनार्थं उद्घाटिताः। मन्दिर-परिसरात् आरभ्य शीतला-धाम्नः गलिषु, चत्वरेषु तथा गङ्गा-घाटपर्यन्तं भक्तानां विशाल-समूहः दृष्टः। दर्शनार्थं दीर्घाः पङ्क्तयः संस्थापिताः आसन्।
भक्ताः “माता शीतला जयति” इति घोषं कुर्वन्तः शनैः शनैः अग्रे गतवन्तः तथा गर्भगृहं प्राप्य विधिविधानपूर्वकं पूजाम् अर्चनां च कृत्वा आशीर्वादं प्राप्नुवन्। मातुः आकर्षकं मनोहरं च श्रृङ्गारं दृष्ट्वा श्रद्धालवः भावविभोराः अभवन्। सम्पूर्णे क्षेत्रे भक्तिमयः वातावरणः आसीत्।
श्रद्धालूनां सुरक्षायै सुगम-दर्शन-व्यवस्थायै च कोतवालः विजय-शङ्कर-सिंहः मेला-प्रभारी उपनिरीक्षकः कुमार-सन्तोषः च पुलिस-दलेन सह गर्भगृहात् आरभ्य मन्दिर-परिसरपर्यन्तं सतर्कतया स्थितवन्तौ।
---------------
हिन्दुस्थान समाचार