वाराणसी: विश्व जल दिवसे मानव शृंखलां निर्माय गंगायाः निर्मलीकरणस्य दत्तः संदेशः
—नमामि गंगे इत्यस्य स्वयंसेवी कार्यकर्तारो दशाश्वमेध घट्टे चालितवन्तः स्वच्छताभियानम् वाराणसी,22 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिक-नगर्यां वाराणसी विश्व-जल-दिवसे नमामि गंगे-स्वयंसेवकाः जनसामान्येन सह मिलित्वा गङ्गायाः निर्मलतार्थं दशाश्व
विश्व जल दिवस पर मानव शृंखला


—नमामि गंगे इत्यस्य स्वयंसेवी कार्यकर्तारो दशाश्वमेध घट्टे चालितवन्तः स्वच्छताभियानम्

वाराणसी,22 मार्चमासः (हि.स.)।

उत्तरप्रदेशस्य धार्मिक-नगर्यां वाराणसी विश्व-जल-दिवसे नमामि गंगे-स्वयंसेवकाः जनसामान्येन सह मिलित्वा गङ्गायाः निर्मलतार्थं दशाश्वमेध घाट इत्यत्र मानव-श्रृंखलां निर्मितवन्तः।

ते सर्वे हस्तेन हस्तं संयोज्य नदीनां, सरांसि तथा भूमिगत-जलस्य संरक्षणाय संकल्पं कृतवन्तः। मानव-श्रृंखलाया माध्यमेन एषः संदेशः प्रदत्तः यत् जल-सुरक्षा सर्वेषां सामूहिकी उत्तरदायित्वम् अस्ति।

ततः अनन्तरं घट्टे गङ्गायां स्वच्छता-अभियानम् अपि आयोजितम्। देशस्य धर्मपरायण-जनान् प्रति गङ्गा-जलस्य संरक्षणार्थं जनभागीदारी-जागरूकतयोः आवाहनं कृतम्। घाटे गङ्गाजलम् प्रदूषयन्ति ये पदार्थाः, तान् निष्कास्य एषः संदेशः दत्तः यत् स्वच्छ-जल-सेवनम् स्वस्थ-सुरक्षित-जीवनस्य आधारः अस्ति।

अस्मिन् अवसरे नगर-निगमस्य स्वच्छता-ब्राण्ड-अम्बेसडरः राजेश-शुक्लः अवदत् यत् विश्व-जल-दिवसः केवलं जल-संरक्षणस्य संदेशं न ददाति, अपि तु जल-संकटस्य समाधानार्थं भूमिस्तरे कार्य-प्रेरणां अपि ददाति। एषः दिवसः अस्मान् जलस्य उत्तरदायी-उपयोगस्य भावी-पीढीनां कृते तस्य संरक्षणस्य च स्मरणं करयति।

अस्मिन् अभियाने सारिका-गुप्ता, बीना-गुप्ता, पंकज-अग्रहरि, रुबी-गुप्ता, अजीत-पाण्डेय, शिल्पी-पाण्डेय, राखी-पाण्डेय इत्यादयः अपि सहभागितां कृतवन्तः।

---------------

हिन्दुस्थान समाचार