Enter your Email Address to subscribe to our newsletters

वाराणसी, 22 मार्चमासः (हि.स.)। उत्तर प्रदेशस्य वाराणस्याः बाबतपुरे स्थिते लाल बहादुर शास्त्री अन्ताराष्ट्रिये विमानपत्तने रविवासरे मध्याह्ने कस्यचित् विदेशी यात्रिणः पुटके बारहसिंगा हरिणस्य शृङ्गं प्राप्तम्। सः विदेशी यात्री स्वपुटके शृङ्गं गुप्तरीत्या स्थापयित्वा आसीत्। सुरक्षा संस्थानां अधिकारीणः तं यात्रिणं निगृह्य गहनपृच्छां कुर्वन्ति। एतस्य विषये फूलपुर पुलिसेन अपि पुष्टि कृता। यात्रिणः पृच्छायां वनविभागस्य अधिकारीणः अपि संलग्नाः सन्ति।
प्राप्तसूचनानुसारं रूसदेशीयः नागरिकः दमित्री ब्रेकिन वाराणस्यां पर्यटनं कृत्वा एयर इंडिया एक्सप्रेस इति विमानसेवायाः आई एक्स 215 इति विमानद्वारा बैंकाकगमनार्थं मध्याह्ने बाबतपुर विमानपत्तनं प्राप्तवान्। एप्रनप्रदेशं गन्तुं पूर्वं यात्रिणः नियमितसुरक्षापरीक्षायां सीआईएसएफ कर्मभ्यः सन्देहः जातः। ततः सुरक्षा कर्मभिः एक्सरे स्कैनिंगद्वारा परीक्षायां कृते तस्य पुटके बारहसिंगा शृङ्गं दृष्टम्। एतत् दृष्ट्वा सुरक्षाकर्मिणः अधिकारीभ्यः सूचनां दत्त्वा यात्रिणं निरुद्ध्य निगृहीतवन्तः।
सीआईएसएफ संस्थया अस्य विषये पुलिसं वनविभागं च अपि सूचितम्, अनन्तरं वनविभागस्य दलं स्थलम् आगत्य प्राप्तं शृङ्गं स्वाधीने कृतवन्तः। प्रारम्भिकपरीक्षायां एषः विषयः वन्यजीवतस्कर्यया सम्बद्धः इति मन्यते। भारते वन्यजीवसंरक्षणअधिनियमस्य 1972 अन्तर्गतं बारहसिंगा हरिणादीनां संरक्षितवन्यजीवानां अङ्गानां परिवहनं व्यापारश्च निषिद्धः अस्ति। वनविभागस्य अधिकारीणां मतानुसारं विभागः अस्य विषयस्य गहनतया अनुसन्धानं कुर्वन् अस्ति।
हिन्दुस्थान समाचार