Enter your Email Address to subscribe to our newsletters

नोएडा, 22 मार्चमासः (हि.स.)।जेवर क्षेत्रे नवनिर्मितस्य नोएडा अन्तर्राष्ट्रीय विमानतलस्य लोकार्पणसमारोहस्य सज्जतां परीक्षितुं उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ रविवासरे नोएडा नगरं प्राप्तवान्। जेवर विमानतले सः प्रायः अर्धद्विघण्टापर्यन्तं अधिकारिभिः सह बैठकां कृत्वा उद्घाटनसमारोहस्य सज्जतां तथा सुरक्षा व्यवस्थां समीक्ष्य आवश्यकानि निर्देशानि अदात्। अस्य नूतनस्य अन्ताराष्ट्रियविमानतलस्य लोकार्पणं मार्चमासस्य अष्टाविंशतितमे दिने प्रधानमन्त्रिणा नरेन्द्र मोदिना करिष्यते।
मुख्यमन्त्री योगी अद्य लखनऊ नगरात् आकाशमार्गेण गाजियाबादस्थितं हिंडन विमानतलं प्राप्तवान्, ततः हेलिकॉप्टरमार्गेण नोएडा अन्तर्राष्ट्रीय विमानतलं गतवान्। अत्र भाजपा नेतारः अधिकारिणः च तस्य स्वागतं कृतवन्तः। तेन सह उत्तरप्रदेश शासनस्य अपरमुख्यसचिवः दीपक कुमार तथा मुख्यमन्त्रिणः विशेषसचिवः ईशान प्रताप सिंह अपि गौतमबुद्धनगरं प्राप्तवन्तौ। अत्र तेन विमानतले प्रचलमानानां सज्जतानां निरीक्षणं कृतम्। सः विमानतलस्य जनसभास्थलस्य च अवलोकनं कृत्वा सुरक्षा व्यवस्थायाः विषये जानकारीं प्राप्तवान्।
अनन्तरं नोएडा अन्ताराष्ट्रिये विमानतलस्य सभागारे अधिकारिभिः सह बैठकां कृत्वा मुख्यमन्त्री योगी सज्जतानां विषये विस्तरेण अवगतः अभवत्। अधिकारिणः समारोहस्य योजना, सुरक्षा योजना, जनसभायां आगन्तॄणां संख्या तथा तेषां उपवेशनव्यवस्था इत्यादीनां विषये प्रस्तुतीकरणं कृतवन्तः। प्रधानमन्त्रिणः आगमनसमये करणीया सुरक्षा योजना अपि समीक्षिता।
मुख्यमन्त्री योगी जनसभायां वाहनस्थानव्यवस्थायाः सुयोजितं मानचित्रं निर्मातुं, स्वच्छता, पेयजलव्यवस्था, विद्युत्संपूर्ति, चिकित्सासुविधा, अग्निसुरक्षा तथा आपत्कालीनसेवानां समुचितव्यवस्था सुनिश्चितुं निर्देशान् अदात्।
अस्मिन् अवसरॆ गौतमबुद्धनगरस्य सांसदः डॉक्टर महेश शर्मा, प्रभारी मन्त्री कुंवर वृजेश सिंह, जेवरविधानसभाक्षेत्रस्य विधायकः धीरेंद्र सिंह, पुलिस आयुक्ता लक्ष्मी सिंह, जिलाधिकारी मेघा रूपम, यमुना द्रुतमार्ग औद्योगिक विकास प्राधिकरणस्य मुख्यकार्यपालकाधिकारी राकेश कुमार सिंह, अपर मुख्यकार्यपालकाधिकारी शैलेन्द्र भाटिया, उपपुलिसायुक्ता पूनम मिश्रा, अपर जिलाधिकारी (वित्त) अतुल कुमार, अपर जिलाधिकारी (प्रशासन) मंगलेश दुबे, अन्तर्राष्ट्रीय विमानतल लिमिटेडस्य मुख्यकार्यपालकाधिकारी क्रिस्टोफ श्रेलमैन, मुख्यपरिचालनाधिकारी किरन जैन, इत्यादयः बहवः जनाः उपस्थिताः आसन्।
मुख्यमन्त्रिणः आगमनं दृष्ट्वा कमिश्नरेट पुलिस, यमुना प्राधिकरण तथा जिला प्रशासनस्य पक्षतः सम्यक् सज्जता कृता आसीत्। अस्मिन् समये सुरक्षा दृष्ट्या अपि अत्यन्तं सुदृढा व्यवस्था कृताऽभूत्।
हिन्दुस्थान समाचार