Enter your Email Address to subscribe to our newsletters

कठुआ, 23 मार्चमासः (हि.स.)।
जीडीसी मढहीनमहाविद्यालये “वन्दे मातरम्” फेज्-३ इत्यस्य अन्तर्गतं राष्ट्रियगीते “वन्दे मातरम्” इत्यस्य शतपञ्चाशत् वर्षपूर्तेः उपलक्ष्ये शपथसमारोहः आयोजितः। अस्य उपक्रमस्य माध्यमेन छात्रेषु राष्ट्रीयएकता अखण्डता सामाजिकदायित्वबोधः च दृढीकरणस्य सन्देशः प्रदत्तः।
कार्यक्रमः महाविद्यालयस्य कम्प्यूटरविज्ञानविभागेन प्राचार्याया प्रो० (डा०) अनुपमागुप्तायाः मार्गदर्शनेन आयोजितः। स्वीयसम्बोधने सा युवजनानां मध्ये देशभक्तेः अनुशासनस्य सक्रियनागरिकतायाः च महत्त्वं प्रतिपादितवती।
अस्मिन् अवसरे अध्यापकाः छात्राः च एकत्रिताः भूत्वा देशस्य विविधतायां एकतां सांस्कृतिकधरोहराणां सम्मानं समाजं प्रति सकारात्मकयोगदानं च कर्तुं शपथं गृहीतवन्तः। समारोहस्य समापनं महान् उत्साहेन “वन्दे मातरम्” इत्यस्य सामूहिकोच्चारणेन अभवत्, येन देशभक्तेः एकतायाः च भावना अधिकं सुदृढा जाता।
---------------
हिन्दुस्थान समाचार