जलसंसाधनसम्बद्धानां महत्त्वपूर्णगणनानां सफलसञ्चालनार्थं बिहाराय राष्ट्रीयसम्मानम्
नवदिल्ली/पटनानगरम्, २३ मार्चमासः (हि.स.)। बिहारसर्वकारस्य योजना-विकासविभागः जलसंसाधनसम्बद्धानां महत्त्वपूर्णगणनानां सफलसञ्चालनार्थं राष्ट्रीयस्तरे सम्मानितः। एतत् सम्मानं विश्वजलदिवसस्य अवसरे आयोजिते कार्यक्रमे केन्द्रीयजलशक्तिमन्त्री सी.आर.पाटिलेन
प्रतिष्ठित सम्मान अपर मुख्य सचिव डॉ एन. विजयलक्ष्मी लेते हुए


नवदिल्ली/पटनानगरम्, २३ मार्चमासः (हि.स.)। बिहारसर्वकारस्य योजना-विकासविभागः जलसंसाधनसम्बद्धानां महत्त्वपूर्णगणनानां सफलसञ्चालनार्थं राष्ट्रीयस्तरे सम्मानितः। एतत् सम्मानं विश्वजलदिवसस्य अवसरे आयोजिते कार्यक्रमे केन्द्रीयजलशक्तिमन्त्री सी.आर.पाटिलेन प्रदत्तः।

कार्यक्रमे जलशक्तिराज्यमन्त्री वी.सोमन्ना, राजभूषणः चौधरी तथा जलशक्तिमन्त्रालयस्य सचिवः वी.एल.कान्थारावः अपि उपस्थिताः आसन्। योजना-विकासविभागस्य पक्षतः एतत् सम्मानम् अपरमुख्यसचिवा डॉ.एन.विजयलक्ष्मी प्राप्तवती। अस्मिन् अवसरे आर्थिक-सांख्यिकीनिदेशालयस्य (डीईएस) निदेशकः रणजीतकुमारः अपि उपस्थितः आसीत्।

सम्मानं प्राप्य डॉ.एन.विजयलक्ष्मी अवदत् यत् एषा उपलब्धिः सम्पूर्णस्य बिहारस्य कृते गौरवस्य विषयः अस्ति। सा अवदत् यत् जूनमासात् अक्टोबरमासपर्यन्तं विशेषगहनपुनरीक्षणकार्यं (एसआईआर) ततः परं निर्वाचनसम्बद्धदायित्वानि सन्ति इत्यपि, विभागस्य दलं सीमितसमये एतानि महत्त्वपूर्णगणनानि सफलतया सम्पन्नानि कृतवान्।

सा अवदत् यत् एषा उपलब्धिः विभागीयसमर्पणस्य, दलकार्यस्य प्रभावीनेतृत्वस्य च परिणामः अस्ति। अपि च एतेभ्यः विवरणेभ्यः राज्ये जलसंसाधनानां उत्तमप्रबन्धनाय प्रमाणाधारितनीतिनिर्माणाय च नूतना दिशा प्राप्ता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता