मुख्यमंत्री डॉ. यादवः स्वतंत्रता सेनानी हेमू कालाणी अथ डॉ. राम मनोहर लोहिया इत्यनयोः जयंत्यां प्रणामः कृतः
भाेपालम्, 23 मार्चमासः (हि.स.)। महान् स्वतन्त्रतासेनानी, समाजवादीविचाराणां आधारस्तम्भः, ओजस्वी वक्ता तथा ‘सप्तक्रान्तेः’ प्रणेता डॉ. राम मनोहर लोहिया, तथा अमरशहीदः एवं युवा क्रान्तिकारी हेमू कालाणी—एतयोः अद्य सोमवासरे जन्मदिवसः अस्ति। अस्मिन् अवस
मुख्यमंत्री डॉ. यादव ने स्वतंत्रता सेनानी हेमू कालाणी की जयंती पर किया नमन


डॉ. राम मनोहर लोहिया


भाेपालम्, 23 मार्चमासः (हि.स.)।

महान् स्वतन्त्रतासेनानी, समाजवादीविचाराणां आधारस्तम्भः, ओजस्वी वक्ता तथा ‘सप्तक्रान्तेः’ प्रणेता डॉ. राम मनोहर लोहिया, तथा अमरशहीदः एवं युवा क्रान्तिकारी हेमू कालाणी—एतयोः अद्य सोमवासरे जन्मदिवसः अस्ति। अस्मिन् अवसरे मुख्यमंत्री डॉ. मोहन यादव एतौ उभौ स्वतन्त्रतासेनानिनौ स्मृत्वा विनम्रं नमनं कृतवान्।

मुख्यमन्त्री डॉ. यादव ‘एक्स’ माध्यमे सन्देशं प्रकाशितवान्। सः डॉ. राम मनोहर लोहिया इत्यस्य जन्मदिने स्मृत्वा उक्तवान्—“स्वतन्त्रतासेनानी तथा समाजवादीचिन्तकः, श्रद्धेयः डॉ. राममनोहरलोहियः—तस्य जन्मदिने अहं सादरं नमनं करोमि। लोकतन्त्रे तस्य आस्था, दरिद्रकल्याणस्य संकल्पः तथा अद्भुता नेतृत्वक्षमता युवजनानां कृते राष्ट्रसेवायां सदा प्रेरणादायिनी अस्ति।”

अन्यस्मिन् सन्देशे तेन युवा क्रान्तिकारी हेमू कालाणी इत्यस्मै जन्मदिने श्रद्धांजलिः अर्पिता, एवं उक्तं यत्मातृभारत्याः वीरसुतः, स्वतन्त्रतासेनानी हेमू कालाणी—तस्य जन्मदिने अहं सादरं नमनं करोमि। अल्पायुषि जीवनकाले अपि तेन राष्ट्रस्य स्वतन्त्रतायाः विविधेषु आन्दोलनिषु ऊर्जा प्रदत्ता तथा जनमानसं जागरितम्। तस्य ऋणात् राष्ट्रं कदापि उऋणं न भविष्यति।

---------------

हिन्दुस्थान समाचार