मुख्यमन्त्रिणा डॉ.राम-मनोहर-लोहिआ-इत्यस्मै श्रद्धाञ्जलिः अर्पिता
पटनानगरम्, २३ मार्चमासः (हि.स.)। समाजवादी-आन्दोलनस्य प्रखर-नेतुः डॉ.राममनोहर-लोहियायाः जयंती-अवसरे लोहिया-उद्यानस्थिते लोहिया-नगर-क्षेत्रे कंकड़बाग-इत्यत्र आयोजिते राजकीय-समारोहे मुख्यमन्त्री नीतिश-कुमारः तस्य आदमकद-प्रतिमायां माल्यार्पणं कृत्वा श्
डॉ राम मनोहर लोहिया जी जयंती पर मुख्यमंत्री श्रद्धांजलि अर्पित करने के बाद अपने मंत्रिमंडलीय सहयोगी के साथ


पटनानगरम्, २३ मार्चमासः (हि.स.)। समाजवादी-आन्दोलनस्य प्रखर-नेतुः डॉ.राममनोहर-लोहियायाः जयंती-अवसरे लोहिया-उद्यानस्थिते लोहिया-नगर-क्षेत्रे कंकड़बाग-इत्यत्र आयोजिते राजकीय-समारोहे मुख्यमन्त्री नीतिश-कुमारः तस्य आदमकद-प्रतिमायां माल्यार्पणं कृत्वा श्रद्धाञ्जलिं अर्पितवान्।

अस्मिन् अवसरे उपमुख्यमन्त्री विजय-कुमार-सिन्हा, जल-संसाधन-सह-संसदीय-कार्य-मन्त्री विजय-कुमार-चौधरी, ग्रामीण-कार्य-मन्त्री अशोक-चौधरी, कृषि-मन्त्री रामकृपाल-यादवः, विधायकः श्याम-रजकः, विधान-परिषद्-सदस्यः संजय-कुमार-सिंहः (गान्धी) इत्येतैः च सह अनेके सामाजिक-राजनैतिक-कार्यकर्तारः तथा गणमान्य-व्यक्तयः अपि उपस्थिताः आसन्। सर्वैः तस्य प्रतिमायां माल्यार्पणं कृत्वा तं नत्वा श्रद्धाञ्जलिः अर्पिता।

एतस्मिन् समारोहे सूचना-जनसम्पर्क-विभागस्य कलाकारैः देशभक्ति-गीतानि बिहार-गीतं च गीतम्, आरार्तिकी-पूजनं च कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता