Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ मार्चमासः (हि.स.)।गुजरातस्य मुख्यमन्त्रिणः तथा प्रधानमन्त्रिणः रूपेण नरेन्द्रमोदिना शासनस्य प्रमुखरूपेण ८,९३१ दिनानि पूर्णानि कृतानि इति कारणेन सोमवासरे दिल्लीविधानसभायाम् अभिनन्दनप्रस्तावः प्रस्तुतः।
दिल्लीविधानसभाध्यक्षः विजेन्द्रगुप्तः सदनं सम्बोध्य देशस्य सर्वाधिक-सेवाकालीनं शासनप्रमुखं नरेन्द्रमोदिनं हार्दिकम् अभिनन्दनम् अकरोत्। सः अवदत् यत् प्रधानमन्त्री मोदी गुजरातस्य मुख्यमन्त्रिणः तथा देशस्य प्रधानमन्त्रिणः रूपेण स्वकार्यकालं संयोज्य ८,९३१ दिनानि शासनप्रमुखरूपेण सेवाकालं पूर्णं कृतवान्, येन सिक्किमस्य पूर्वमुख्यमन्त्रिणः पवनकुमार-चामलिङ्गस्य ८,९३० दिनानां अभिलेखः अतिक्रान्तः। एतत् केवलं संख्या नास्ति एतत् पञ्चविंशतिवर्षीयायाः अखण्डजनसेवायाः प्रमाणम् अस्ति।
विजेन्द्रगुप्तः अवदत् यत् ७ अक्टोबरमासे २००१ तमे गुजरातस्य मुख्यमन्त्रीपदस्य शपथग्रहणात् आरभ्य २६ मईमासे २०१४ तमे प्रधानमन्त्रीत्वं प्राप्तिपर्यन्तं- मोदिनः यात्रा एकनिष्ठसमर्पणस्य यात्रा आसीत्। सः प्रथमः अकाङ्ग्रेसपक्षीयः प्रधानमन्त्री अस्ति, येन लोकसभायां पूर्णबहुमतेन निरन्तरं द्वौ कार्यकालौ पूर्णीकृतौ, तृतीयवारं च पुनः सत्तां प्राप्तवान्। तस्य नेतृत्वे भारतदेशे २५ कोट्यधिकाः जनाः दारिद्र्यात् बहिरागताः देशश्च विश्वस्य चतुर्था बृहत्तमा अर्थव्यवस्था अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता