भारतीय सेनायाः शौर्यबलिदानयोः परंपरया युक्तिः गर्वस्य विषयः - माेहनयादवः
- भोपाले सेनादिवसः 15 जनवरी 2027तमे दिनांके भविष्यति नव दिल्ल्याः 26 जनवरी इव पदप्रयाणम् भोपालम्, 23 मार्चमासः (हि.स.) । मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादव उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदीस्य नेतृत्वे भारतीयसेना प्रत्येकस्मिन् अवसरि
मुख्यमंत्री डॉ. मोहन यादव की अध्यक्षता में सैन्य अधिकारियों की बैठक हुई


- भोपाले सेनादिवसः 15 जनवरी 2027तमे दिनांके भविष्यति नव दिल्ल्याः 26 जनवरी इव पदप्रयाणम्

भोपालम्, 23 मार्चमासः (हि.स.) । मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादव उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदीस्य नेतृत्वे भारतीयसेना प्रत्येकस्मिन् अवसरि प्रत्येकस्मिन् मोर्चे च अदम्यं साहसं शौर्यं सामर्थ्यं च प्रदर्शितवती। देशस्य प्रत्येकस्य व्यक्तेः प्रत्येकस्य कुटुम्बस्य च कृते भारतीयसेनायाः शौर्यबलिदानपरम्परया सह सम्बन्धः गौरवस्य विषयः अस्ति।

सोमवासरे भोपालनगरे स्थिते मुख्यमन्त्रीसमत्वभवने आयोजितायां सभायां मुख्यमन्त्री डॉ. यादव मुख्यसचिव अनुराग जैन तथा सेनाध्यक्ष जनरल उपेन्द्र द्विवेदी इत्येतयोः उपस्थितौ संबोधनम् अकरोत्। अस्मिन् कार्यक्रमे अपरमुख्यसचिवः नीरज मण्डलोई पुलिसमहानिदेशकः कैलाश मकवाना तथा सेनायाः वरिष्ठाधिकारी उपस्थिताः आसन्।

मुख्यमन्त्री उक्तवान् यत् प्रदेशवासिनः भारतीयसेनायाः समृद्धां सैन्यपरम्परां ज्ञातुं युवानः च सेनायां सम्मिलितुं प्रेरयितुं 15 जनवरी 2027 दिने भोपाले विशेषा सेना दिवस परेड आयोजिता भविष्यति। भोपाले आयोजितानां कार्यक्रमाणां अनुभवः 26 जनवरी दिने नूतनदिल्लीस्थे कर्तव्यपथे आयोजितानां गणतन्त्रदिवसस्य कार्यक्रमाणां सदृशः भविष्यति। राज्यसरकारः अस्य आयोजनस्य कृते भारतीयसेनायै सर्वतोभावेन सहयोगं दास्यति इति अपि सः अवदत्।

एतस्मिन् अवसरे सेनाध्यक्षः जनरल उपेन्द्र द्विवेदी उक्तवान् यत् 15 जनवरी 2027 दिने भोपाले भव्यः सेना दिवस परेडः आयोज्यते। तेन सह शौर्यसंध्या अस्त्रशस्त्रप्रदर्शनी सैन्याभ्यासप्रदर्शनं च भविष्यति। सेवानिवृत्तसैनिकानां सम्मानः अपि क्रियते। एते सर्वे कार्यक्रमाः नूतनदिल्लीस्थे गणतन्त्रदिवसस्य भव्यतया सह तुल्यरूपेण आयोजिताः भविष्यन्ति। अस्मिन् कार्यक्रमे रक्षामन्त्री राजनाथ सिंह अपि सहभागी भविष्यति।

एतत् आयोजनं भारतीयसेनायाः वीरपरम्परायाः प्रदर्शनाय जनसामान्येन सह सम्बन्धवृद्धये प्रशासनसेनयोः मध्ये समन्वयवर्धनाय यूनां प्रेरणाय च आयोजितं भवति।

सभायां सूचितं यत् एतेषां कार्यक्रमाणां आरम्भः 1 नवम्बर 2026 दिने मध्यप्रदेशस्थापनादिवसे भविष्यति। अस्मिन् दिने मेरी माटी अभियानस्य अन्तर्गतं विविधजिलाभ्यः मृत्तिका आनयित्वा भोपालस्थे शौर्यस्मारके संकल्पवृक्षः रोप्यते। 9 11 13 जनवरी दिने परेडाभ्यासः भविष्यति तथा 11 13 जनवरी दिने शौर्यसंध्याया अभ्यासः भविष्यति। 7 तः 12 जनवरी पर्यन्तं सैन्यप्रदर्शनी आयोजिताऽस्ति।

भोपालस्य बृहत्सरोवरे 11 12 जनवरी दिने सैन्याभ्यासः भविष्यति। पदप्रयाणस्य कृते अटलपथ एयरोसिटी मार्गः भेल कालीबाड़ी मार्गः तथा भेल लिंक मार्गः प्रस्ताविताः सन्ति। शौर्यसंध्या टी टी नगर स्टेडियमे तथा प्रदर्शनी जम्बूरीमैदाने आयोजिताऽस्ति। बृहत्सरोवरे जलक्रीडा एयर शो सैन्याभ्यासः च भविष्यन्ति। प्रारम्भिककार्यक्रमरूपेण 1 नवम्बर 2026 दिने हॉट एयर बैलून मोटरसाइकिल रैली धावनं च अन्याः गतिविधयः आयोज्यन्ते।

उल्लेखनीयम् यत् सेना दिवसः प्रतिवर्षं 15 जनवरी दिने मन्यते। 1949 वर्षे जनरल के एम करियप्पा इत्यनेन भारतीयसेनायाः नेतृत्वग्रहणस्य स्मरणार्थं अयं दिवसः आयोज्यते। राष्ट्रव्यापी जनभागीदारीं प्रोत्साहयितुं तथा सेना नागरिकसम्बन्धान् सुदृढीकर्तुं 2023 वर्षात् आरभ्य एषा परम्परा विकेन्द्रीकृता अस्ति।

एवं प्रकारेण आयोजनानि स्थानीयस्तरे शहीदवीराणां सम्मानाय स्मरणाय च अवसरं ददति। 2023 वर्षे बैंगलुरुनगरे 2024 वर्षे लखनऊ नगरे 2025 वर्षे पुणे नगरे 2026 वर्षे जयपुर नगरे च एते कार्यक्रमाः आयोजिताः। एतेन युवानः भारतीयसेनायां सेवायै प्रेरिताः भवन्ति।

अस्यां सभायां लेफ्टिनेंट जनरल संदीप जैन लेफ्टिनेंट जनरल अरविंद चौहान लेफ्टिनेंट जनरल रंजीत सिंह मेजर जनरल विकास लाल ब्रिगेडियर नितिन भाटिया कर्नल सौरभ कुमार सन्नी जुनेजा राजेश बंडले च अन्ये अधिकारिणः उपस्थिताः आसन्।----------------

हिन्दुस्थान समाचार