सांसदः सुब्बा प्रधानमन्त्रिणे मोदिने शुभकामनाः अयच्छत्
नवदिल्ली, २३ मार्चमासः (हि.स.)। सिक्किमक्रान्तिकारीमोर्चायाः लोकसभासदस्यः डॉ.इन्द्रहाङ्गसुब्बा स्वातन्त्र्यभारतस्य इतिहासे सर्वाधिककालपर्यन्तं शासनस्य प्रमुखरूपेण सेवाभिलेखं निर्मितवते प्रधानमन्त्रिणे नरेन्द्रमोदिने शुभकामनाः अयच्छत्। डॉ.सुब्बा सो
सिक्किम क्रांतिकारी मोर्चा के सांसद डॉ. इंद्र हांग सुब्बा की फाइल फोटो


नवदिल्ली, २३ मार्चमासः (हि.स.)। सिक्किमक्रान्तिकारीमोर्चायाः लोकसभासदस्यः डॉ.इन्द्रहाङ्गसुब्बा स्वातन्त्र्यभारतस्य इतिहासे सर्वाधिककालपर्यन्तं शासनस्य प्रमुखरूपेण सेवाभिलेखं निर्मितवते प्रधानमन्त्रिणे नरेन्द्रमोदिने शुभकामनाः अयच्छत्।

डॉ.सुब्बा सोमवासरे लोकसभायां अवदत् यत् प्रधानमन्त्री मोदी ७ अक्टोबरमासे २००१ तमे दिने गुजरातस्य मुख्यमन्त्रीरूपेण शपथं गृहीतवान्। तस्मात् आरभ्य अद्यपर्यन्तं मुख्यमन्त्रीरूपेण प्रधानमन्त्रीरूपेण च तस्य सार्वजनिकजीवनस्य ८,९३१ दिनानि पूर्णानि जातानि।

अनेन दीर्घकालेन सह प्रधानमन्त्री मोदी सिक्किमस्य पूर्वमुख्यमन्त्रिणं पवनकुमारचामलिङ्गं अतिक्रान्तवान्। चामलिङ्गस्य नाम्ना अद्यावधि कस्यापि राज्यस्य केन्द्रसरकारस्य वा प्रमुखरूपेण ८,९३० दिनानि सेवा कृतस्य अभिलेखः आसीत्।

डॉ.सुब्बा सिक्किमस्य मुख्यमन्त्रिणः प्रेमसिंहतमाङ्गस्य, राज्यस्य जनतायाः तथा स्वस्य सर्वेषां सहयोगिनां पक्षतः प्रधानमन्त्रिणे मोदिने अस्य ऐतिहासिकसिद्धेः उपलक्ष्ये शुभाशंसाः च अयच्छत्।

हिन्दुस्थान समाचार / अंशु गुप्ता