उपराष्ट्रपतिः, लोकसभाध्यक्षः इत्येताभ्यां सह अनेके नेतारः शहीददिवसे श्रद्धाञ्जलिम् अर्पितवन्तः
नवदिल्ली, २३ मार्चमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णन्, लोकसभाध्यक्षः ओमबिरला, गृहमन्त्री अमितशाहः इत्येतैः सह अनेके नेतारः सोमवासरे शहीददिवसे भगतसिंहं, राजगुरुं सुखदेवं च श्रद्धाञ्जलिं अर्पितवन्तः। उपराष्ट्रपतिना ‘एक्स्’ इति माध्यमे लिखि
शहीद दिवस पर आजादी के नायकों  के चित्र।


नवदिल्ली, २३ मार्चमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णन्, लोकसभाध्यक्षः ओमबिरला, गृहमन्त्री अमितशाहः इत्येतैः सह अनेके नेतारः सोमवासरे शहीददिवसे भगतसिंहं, राजगुरुं सुखदेवं च श्रद्धाञ्जलिं अर्पितवन्तः।

उपराष्ट्रपतिना ‘एक्स्’ इति माध्यमे लिखितम्- “भगतसिंहस्य, राजगुरोः तथा सुखदेवस्य शहादतदिवसे अहं स्वातन्त्र्यसंग्रामस्य एतान् अमरनायकान् भावपूर्णां श्रद्धाञ्जलिं अर्पयामि। राष्ट्रं प्रति तेषाम् अदम्यसाहसः, दृढसंकल्पः तथा सर्वोच्चबलिदानं च देशभक्तेः निःस्वार्थसेवायाश्च परमादर्शानां प्रतीकाः सन्ति। तेषां परम्परा वंशान् न्यायस्य, स्वातन्त्र्यस्य, राष्ट्रियैक्यस्य च मूल्यानि धारयितुं प्रेरयिष्यति। अस्मिन् दिने आगच्छामः- सशक्तस्य, समावेशिनः, प्रगतिशीलस्य भारतस्य निर्माणाय स्वप्रतिबद्धतां पुनरुच्चार्य एतान् महतः स्वातन्त्र्यसेनानीन् श्रद्धाञ्जलिं अर्पयामः।”ओमबिरला अवदत् यत् तेषां उत्साहः आदर्शाश्च अद्यापि प्रत्येकं भारतीयस्य हृदये राष्ट्रसेवायाः प्रेरणां जनयन्ति। मातृभूमिं प्रति एतत् समर्पणं सदा अस्माकं कृते प्रेरणादायकं भविष्यति।

अमितशाहः अवदत् यत् भगतसिंहः, राजगुरुः तथा सुखदेवः स्वविचारैः स्वाचारैश्च मातृभूमेः स्वातन्त्र्यार्थं यूनः प्रेरितवन्तः। एतेषां वीराणां पराक्रमस्य घोषः सम्पूर्णाम् आङ्ग्लीयशासकान् भयभीतवान्। मातृभूमेः स्वातन्त्र्यार्थं रज्जोः उपरि जीवनं त्यक्तवताम् एतेषां वीराणां वीरगाथां स्मृत्वा शरीरस्य प्रत्येकं रोमः राष्ट्रभक्त्या परिपूर्यते।

केन्द्रीयसड़कपरिवहनमार्गमन्त्री नितिनगडकरी अवदत् यत् मातृभूम्याः कृते स्वसर्वस्वं समर्पितवतां महतां क्रान्तिकारिणां भगतसिंहस्य, सुखदेवस्य, राजगुरोश्च बलिदानदिवसे तान् प्रति कोटिशः नमनम्।

काङ्ग्रेसस्य राष्ट्रीयाध्यक्षः मल्लिकार्जुनखरगे अवदत् यत् तेषाम् अद्वितीयं साहसः त्यागः समर्पणं च सदा अस्मान् प्रेरयिष्यति। कृतज्ञं राष्ट्रं तेषां बलिदानस्य सदा ऋणी भविष्यति।लोकसभायां प्रतिपक्षनेता राहुलगांधी अवदत् यत् देशस्य कृते निर्भयतया युद्धं कुर्वतां तेषां संघर्षः सर्वोच्चबलिदानं च प्रत्येकं भारतवासिनः कृते प्रेरणास्रोतः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता