Enter your Email Address to subscribe to our newsletters

कठुआ, 23 मार्चमासः (हि.स.)।
जम्मूकश्मीरप्रदेशे पावरडेवलपमेंटविभागेन प्रवर्तिता अमनेस्टी योजना विद्युत्-उपभोक्तृणां कृते महती राहतिरूपेण अभवत्। अस्याः योजनायाः अन्तर्गतं उपभोक्तारः स्वेषां पुरातनलम्बितविद्युत्-बिलेषु आरोप्यमाणस्य व्याजस्य मोचनं प्राप्य केवलं मूलराशिं निक्षिप्य बकायस्य निपटारं कर्तुं शक्नुवन्ति।
विभागीयाधिकारिणां अनुसारं एषा विशेषयोजना केवलं एकत्रिंशत् मार्चपर्यन्तं प्रवर्तिष्यते, अतः उपभोक्तृणां कृते समयः सीमितः अस्ति। कार्यकारी अभियन्ता कठुआ उक्तवान् यत् अस्याः योजनायाः मुख्योद्देश्यं लम्बितबकायस्य वसूलिवृद्धिः तथा उपभोक्तृणां आर्थिकसहायता प्रदानेन राहतिः च अस्ति। अस्यां योजनायां मुख्यतया गृहश्रेण्याः उपभोक्तारः सम्मिलिताः सन्ति।
तथैव येषां उपभोक्तृणां विद्युत्संयोजनानि बकायकारणेन विच्छिन्नानि आसन्, ते अपि राशिं निक्षिप्य स्वसंयोजनं पुनः स्थापयितुं शक्नुवन्ति। अधिकारिणः जनान् प्रति आह्वानं कृतवन्तः यत् ते अन्तिमतिथेः प्रतीक्षां न कृत्वा शीघ्रमेव अस्याः योजनायाः लाभं गृह्णीयुः।
विभागस्य मतम् अस्ति यत् अस्याः पहलायाः कारणेन यत्र राजस्ववसूलौ सुधारः भविष्यति, तत्रैव विद्युत्पूर्तिव्यवस्था अपि अधिकं सुदृढा भविष्यति।
---------------
हिन्दुस्थान समाचार