प्रधानमंत्रिणा देव्याः स्कंदमातुः कृपया संस्कृत सुभाषितं सहकृतम्
नव दिल्ली, 23 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः सोमवासरे देवीस्कन्दमातुः दिव्यकृपां सर्वेषां कल्याणाय च तस्याः दिव्यमाशिषं याचमानः एकं संस्कृतसुभाषितं साझा कृतवान्। प्रधानमन्त्री मोदीः ‘एक्स’ इति माध्यमे अलिखत् यत् “देव्याः स्कन्दमात
प्रधानमंत्री नरेन्द्र मोदी की फाइल फोटो


नव दिल्ली, 23 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः सोमवासरे देवीस्कन्दमातुः दिव्यकृपां सर्वेषां कल्याणाय च तस्याः दिव्यमाशिषं याचमानः एकं संस्कृतसुभाषितं साझा कृतवान्।

प्रधानमन्त्री मोदीः ‘एक्स’ इति माध्यमे अलिखत् यत्

“देव्याः स्कन्दमातुः करबद्धा प्रार्थना! मम कामना अस्ति यत् सा सर्वेषां जीवनं मातृस्नेहेन आशीर्वादेन च आलोकयतु। अम्बायाः दर्शनात् भक्तेः अद्भुतः आनन्दः अनुभूयते। अनेन मनसि शान्तिः आत्मिकशक्तिश्च प्राप्यते।”

तेन ‘सिंहासनगता नित्यं पद्माश्रितकरद्वया। शुभदा अस्तु सदा देवी स्कन्दमाता यशस्विनी॥’ इति संस्कृतसुभाषितस्य पाठः अपि सहकृतः।

अस्य अर्थः—

हे महिमामयी देवी स्कन्दमाते! या नित्यं सिंहासने उपविष्टा भवति, यया च उभयोः हस्तयोः पद्मानि धार्यन्ते, सा अस्मभ्यं सदा शुभफलानि ददातु।

---------------

हिन्दुस्थान समाचार