Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 23 मार्चमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी सोमवासरे प्रखरसमाजवादीचिन्तकस्य डॉ. राम मनोहर लोहिया इत्यस्य जन्मदिने तस्मै भावपूर्णां श्रद्धांजलिं समर्पितवान्।
प्रधानमन्त्री मोदी ‘एक्स’ माध्यमे लिखितवान् यत्
“डॉ. राममनोहरलोहियाय नमः। तस्य जन्मदिने तस्मै श्रद्धांजलिः। सः बहुमुखप्रतिभासम्पन्नः व्यक्तिः आसीत्, येन औपनिवेशिकशासनस्य विरुद्धे जनान्दोलने महत्त्वपूर्णा भूमिका निभिता, तथा १९४७ वर्षात् अनन्तरं भारतस्य प्रगतौ अपि योगदानं कृतम्। सः उत्कृष्टः चिन्तकः आसीत् तथा सामाजिकन्यायस्य अग्रणीस्वराणां मध्ये एकः आसीत्। दरिद्राणां तथा उपेक्षितवर्गाणां सशक्तीकरणे तस्य अटूटप्रतिबद्धता आगामिपीढीन् प्रेरयिष्यति। लैङ्गिकसमता तथा सहभागिशासनसम्बद्धाः तस्य विचाराः अपि अत्यन्तं उल्लेखनीयाः सन्ति।”
---------------
हिन्दुस्थान समाचार