Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 23 मार्चमासः (हि.स.)।
राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवर्षस्य अन्तर्गतं चतुर्थचरणे बस्तरजिलास्तरीया प्रमुखजनगोष्ठी अद्य कृषि-महाविद्यालयस्य जगदलपुरस्थिते सभागारे आयोजिताऽभवत्।
कार्यक्रमे मुख्यवक्ता रूपेण अखिलभारतीयसहसम्पर्कप्रमुखः भरतभूषणः उपस्थितः आसीत्। मुख्यातिथिरूपेण पूर्वकेन्द्रीयमन्त्री अरविन्दनेतामः उपस्थितः आसीत्। अन्ये च प्रान्तसंघचालकः टोपलालवर्मा तथा जिलासंघचालकः योगेश्वरसिन्हा सहिताः अनेके प्रमुखजनाः उपस्थिताः आसन्। गोष्ठ्याम् बस्तरप्रदेशस्य वर्तमानसामाजिकसांस्कृतिकपरिवर्तनानि तथा भविष्ये सांस्कृतिकधरोहराणां संरक्षणम् अपि चर्चितम्। कार्यक्रमस्य अन्ते शङ्कासमाधानसत्रं आयोजितम्, यस्मिन् उपस्थितानां प्रश्नानां समाधानानि दत्तानि।
मुख्यतिथिः अरविन्दनेतामः धर्मान्तरणस्य वर्तमानस्थितिं प्रति चिन्तां व्यक्तवान्, तथा उक्तवान् यत् केवलं विधेयकप्रवर्तनात् समस्यायाः समाधानं न सम्भवति, अपि तु समाजस्य अपि सक्रियभूमिका अपेक्षिता।
मुख्यवक्ता भरतभूषणः अबूझमाडप्रदेशस्य बस्तरस्य च जनजातीयकुटुम्बेषु हिन्दू-अवधारणां प्रति प्रसारितानां भ्रमानां निराकरणं कृतवान्। तेन भगवान् रामस्य बस्तरागमनं तथा माता शबरीप्रसङ्गः उल्लिख्य सामाजिकसमरसतायाः संदेशः प्रदत्तः। तेन जीवनशैली परम्परा पूजापद्धतिः तथा प्रकृतिपूजायाः विविधाः आयामाः विस्तरेण विवेचिताः।
एषा बस्तरजिलास्तरीया प्रमुखगोष्ठी मुख्यतया जगदलपुरस्य प्रमुखकेन्द्रेषु केन्द्रिता आसीत्। संघस्य हालियबैठकानुसारं बस्तरसंभागस्य सर्वेषु सप्तसु जिलेषु मण्डलस्तरे बस्तीस्तरे च एतादृशाः गोष्ठ्यः आयोज्यन्ते। गोष्ठ्याम् बस्तरस्य परिवर्तमानचित्रम् अपि चर्चितम्। सुरक्षाबलानां सफलकार्यवाहिभिः आत्मसमर्पणनीत्या च क्षेत्रे नक्सलवादस्य उपशमनं शान्तिस्थापनं च महती सिद्धिरूपेण निर्दिष्टम्।
समाजस्य गणमान्यजनैः सह जातायां अस्याम् चर्चायां संघस्य “पञ्चपरिवर्तन” अभियानः अपि प्रमुखतया प्रतिपादितः। अस्याः योजनायाः पञ्च स्तम्भाः सन्ति— सामाजिकसमरसता कुटुम्बप्रबोधनम् पारिवारिकमूल्यानि पर्यावरणसंरक्षणम् स्वदेशीजीवनशैली नागरिककर्तव्यं च।
छत्तीसगढप्रदेशे संघस्य २,१८८ शाखानां माध्यमेन शताब्दीवर्षे प्रत्येकगृहं प्रति गन्तुं “सम्पर्कअभियानस्य” रूपरेखा अपि प्रस्तुताऽभवत्। स्थानीयआदिवासिनां कला संस्कृतिः परम्पराः च संरक्षितुं तान् राष्ट्रियमुख्यधारया सह संयोजयितुं प्रयत्नाः अपि चर्चिताः।
हिन्दुस्थान समाचार