तमिलनाडु भाजपा प्रभारी अथ च केंद्रीयमंत्री पीयूष गोयल चेन्नईं प्राप्नोत्
चेन्नई, 23 मार्चमासः (हि.स.)। तमिलनाडुराज्यस्य भाजपा-प्रभारी तथा केन्द्रीयमन्त्री पीयूष गोयल चेन्नईनगरं प्राप्तवान्।तमिलनाडुराज्ये २३ अप्रैल्-दिने भविष्यन्ति विधानसभानिर्वाचनानि इति कारणेन राजनैतिकदलानि स्वैः सहयोगिदलैः सह स्थानविभाजनसम्बद्धासु चर्
पीयूष गोयल


चेन्नई, 23 मार्चमासः (हि.स.)। तमिलनाडुराज्यस्य भाजपा-प्रभारी तथा केन्द्रीयमन्त्री पीयूष गोयल चेन्नईनगरं प्राप्तवान्।तमिलनाडुराज्ये २३ अप्रैल्-दिने भविष्यन्ति विधानसभानिर्वाचनानि इति कारणेन राजनैतिकदलानि स्वैः सहयोगिदलैः सह स्थानविभाजनसम्बद्धासु चर्चासु व्यग्राणि सन्ति। अस्मिन् क्रममध्ये स्थानविभाजनसम्बद्धाः चर्चाः अन्तिमचरणं प्राप्तवन्त्यः सन्ति, तथा च अखिल भारतीय अन्ना द्रविड़ मुनेत्र कड़गम तथा भारतीय जनता पार्टी इत्येतयोः मध्ये अद्य सायंकाले अन्तिमचर्चा भविष्यति।

पीयूष गोयल प्रातः काले प्रायः दशवादने चेन्नैनगरं प्राप्तवान्। चेन्नै-विमानस्थानके तस्य स्वागतं एल. मुरुगन तथा नयिनार नागेंद्रन सहितैः पक्षनेतृभिः कृतम्।

विमानस्थानके माध्यमैः सह संभाषणे पीयूष गोयल उक्तवान् यत् द्रविड़ मुनेत्र कड़गम–भारतीय राष्ट्रीय कांग्रेस इति गठबन्धनात् जनता निराशा असन्तुष्टिः च अनुभवन्ति।

तेन उक्तं यत् तमिलनाडुराज्यं परिवर्तनाय सज्जम् अस्ति। गोयल महोदयः डीएमके-गठबन्धनं प्रति भ्रष्टाचारस्य आरोपान् कृत्वा उक्तवान् यत् तस्य पराजयार्थम् अखिल भारतीय अन्ना द्रविड़ मुनेत्र कड़गम नेतृत्वे गठबन्धनं निर्मितम्।

सः अवदत् यत् अद्य सायंकाले राष्ट्रीय जनतांत्रिक गठबंधन-सभा मध्ये स्थानविभाजनस्य अन्तिमनिर्णयः क्रियिष्यते। तेन विश्वासः व्यक्तः यत् तमिलनाडु तथा पुडुचेरी राज्ययोः राष्ट्रिय जनतांत्रिक गठबंधन विजयम् अधिगम्य शासनं स्थापयिष्यति।

हिन्दुस्थान समाचार