असम-राइफल्स-इत्यस्य संस्थापन-दिने अमितशाहः अन्ये च बहवः नेतारः शुभकामनाः प्रदत्तवन्तः
नवदिल्ली, २४ मार्चमासः (हि.स.)।असमराइफल्स-इत्यस्य संस्थापनदिवसे केन्द्रीयगृह-सहकारिता मन्त्री अमितशाहः, केन्द्रीयसामाजिक-न्याय-अधिकारिता मन्त्री डॉ.वीरेन्द्रकुमारः, हरियाणाप्रदेशस्य मुख्यमंत्री नायाबसैनी वीरयोः सैनिकानां तेषां च परिवाराय शुभकामनाः
असम राइफल्स की फाइल फोटो


नवदिल्ली, २४ मार्चमासः (हि.स.)।असमराइफल्स-इत्यस्य संस्थापनदिवसे केन्द्रीयगृह-सहकारिता मन्त्री अमितशाहः, केन्द्रीयसामाजिक-न्याय-अधिकारिता मन्त्री डॉ.वीरेन्द्रकुमारः, हरियाणाप्रदेशस्य मुख्यमंत्री नायाबसैनी वीरयोः सैनिकानां तेषां च परिवाराय शुभकामनाः प्रदत्तवन्तः। नेतॄणां मतानुसारं, पूर्वोत्तर-सीमानां रक्षणं कुर्वन्तः असम-राइफल्स-इत्यस्य सैनिकाः साहसं, अनुशासनं समर्पणं च राष्ट्रस्य ऐक्यस्य सुरक्षा च प्रेरणास्त्रोतः इति अभिवादितम्।

अमितशाहः लिखितवान्- असमराइफल्स-सैनिकाः पूर्वोत्तरस्य कठिनप्रदेशेषु सीमाः रक्षन्ति तथा मानवीयसहकारेण समुदायेषु विश्वासं स्थापयन्ति। सः बलिदानी-सैनिकान् अपि स्मरन् ये राष्ट्रसेवायां स्वबलिदानं दत्तवन्तः।

डॉ.वीरेन्द्रकुमारः असमराइफल्स-इत्यस्य १९१तमस्य संस्थापनदिनस्य अवसरे सैन्यकर्मिणः, पूर्वसैनिकाः च तेषां परिवाराय शुभकामनाः प्रदत्तवन्तः। तेन उक्तं - वीरता, अनुशासनं समर्पणं च असमराइफल्स-इत्यस्य प्रतीकानि, यैः सीमाः रक्षिताः राष्ट्रस्य सुरक्षा च सुनिश्चिता।मुख्यमंत्री सैनी असमराइफल्स ‘पूर्वोत्तर-रक्षकाः’ इत्युक्त्वा अवदत् - राष्ट्रस्य ऐक्याय, अखण्डतायाः सुरक्षायाः च कृते तेषां अदम्यसाहसं समर्पणं च प्रेरणादायकम्।

असमराइफल्स-इत्यस्य संस्थापना १८३५ वर्षे अभवत्, यत् देशस्य प्राचीनतमं अर्धसैनिकबलम् अस्ति। असमराइफल्स केवलं सीमासुरक्षायै न, अपितु आपदाप्रबंधनाय, मानवीयसहायाय समुदायेषु विश्वासस्यान्वयाय च सक्रियं कर्म कुर्वन्ति। वर्तमानकाले एतत् बलं गृह-मन्त्रालयस्य प्रशासन-नियन्त्रणम् तथा रक्षा-मन्त्रालयस्य परिचालन-नियन्त्रणम् अधिनस्य कार्यं कुर्वन् अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani