Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 24 मार्चमासः (हि.स.)। असमे 2026 वर्षस्य विधानसभानिर्वाचनात् पूर्वं मतदातृणां सहभागितां वर्धयितुं सामाजिकमाध्यमप्रभावकाः, पैरा-एथलीटाः तथा समुदायाधारितक्रियाकलापाः समावेश्य विशेषः प्रयत्नः आरब्धः अस्ति।
एषः प्रारंभो निर्वाचनायोगस्य “व्यवस्थितमतदातृशिक्षा तथा निर्वाचनसहभागिता” कार्यक्रमस्य अंशः अस्ति, यस्य उद्देश्यं मतदानाधिकारस्य दायित्वानां च विषये जागरूकतां वर्धयितुम् अस्ति।
सर्वेषु जनपदेषु अधिकारिणः विविधाः जागरूकताक्रियाः आयोजयन्ति, यासु नुक्कड्नाटकानि, रंगोलिप्रतियोगिताः, चित्रकलाप्रतियोगिताः, नारालेखनस्पर्धाः, डिजिटलपोस्टरअभियानानि, भित्तिलेखनकार्यक्रमाः तथा कार्यशालाः समाविष्टाः सन्ति। सहभागितां विस्तारयितुं समाचारप्रस्तुतिस्पर्धाः अन्ये च जनसंपर्कोपायाः अपि आरब्धाः सन्ति।
अधिकारिणः उक्तवन्तः यत् एषः अभियानः मुख्यनिर्वाचनाधिकारिणः पर्यवेक्षणे संचाल्यते, येन मतदातृणां सहभागिता वर्धेत। एकस्मिन् वक्तव्ये उक्तं यत् मतदातृसहभागितावृद्धये तथा नागरिकानां मूलभूतलोकतान्त्रिकाधिकारदायित्वयोः विषये जागरूकताप्रसाराय राज्यव्यापी विविधाः क्रियाः आयोजिताः सन्ति।
अनेकानि जिलानि मतदातृभिः सह संयोगं स्थापयितुं स्थानीयोपायान् अवलम्बन्ते। मतदातृसम्बन्धं सुदृढं कर्तुं विशेषाः शुभंकराः अपि प्रस्तूताः, यथा लखीमपुरे “बखर”, शोणितपुरे “गणबन्धु”, जोरहाटे “जोलौ”, गोलाघाटे “चमेली”, तथा कोकराझारे “द्विमलू” “सिखिरी” च।
जागरूकताअभियानस्य विस्ताराय प्रसिद्धव्यक्तयः अपि समाविष्टाः सन्ति। जोरहाटजिले पूर्वोत्तरप्रदेशस्य ब्लॉगरः अभिनवबोरा, यः “लेज़ीगाय” इति नाम्ना प्रसिद्धः, युवमतदातृणां आकर्षणाय अभियानस्य मुखरूपे नियुक्तः। अभिनेता राजीवदुवारी लखीमपुरे प्रतीकरूपेण नियुक्तः, तथा पैरासाइकिलचालकः राकेशबनिकः अनेकषु जिलेषु जागरूकताअभियानस्य नेतृत्वं करिष्यति।
मुख्यनिर्वाचनाधिकारी अनुरागगोयलः विश्वासं व्यक्तवान् यत् अस्य व्यापकअभियानस्य परिणामस्वरूपं मतदातृसहभागिता वर्धिष्यते। सः नागरिकान् प्रति आह्वानं कृतवान् यत् ते अस्मिन् लोकतान्त्रिकप्रक्रियायां उत्साहेन सहभागं कुर्वन्तु।
असमविधानसभायाः 126 आसनानां कृते मतदानं 9 एप्रिल् दिने भविष्यति तथा मतगणना 4 मई दिने भविष्यति।-------------
हिन्दुस्थान समाचार